3.6 तस्य भूमीषु विनियोगः
सूत्रसारः
सम्पादयतुव्यासभाष्यम्
सम्पादयतुतस्य संयमस्य जितभूमेर्यानन्तरा भूमिस्तत्र विनियोगः । न ह्यजिताधरभूमिरनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तदभावाच्च कुतस्तस्य प्रज्ञालोकः ? ईश्वरप्रसादाज्जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात्? तदर्थस्यान्यत एवावगतत्वात। भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः । कथं ? एवं ह्युक्तम्—
- योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्तते ।
- योऽप्रमत्तस्तु योगेन स योगे रमते चिरम् ॥ इति ॥६॥
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि 3.6 तस्य भूमीषु विनियोगः-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine