2.27 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा
सूत्रसारः
सम्पादयतुव्यासभाष्यम्
सम्पादयतुतस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेत्यशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा—
(1) परिज्ञानं हेयं नास्य पुनः परिज्ञेयमस्ति । (2) क्षीणाः हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति । (3) साक्षात्कृतं निरोधसमाधिना हानम् । (4) भावितो विवेकख्यातिरूपो हानोपाय इति ।
एषा चतुष्टयी कार्यविमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी—
(5) चरिताधिकारा बुद्धिः । (6) गुणा गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रविलीनानां पुनर्सत्युत्पादः प्रयोजनाभावादिति । (7) एतस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति ।
एतां सप्तविधां प्रान्तभूमिप्रज्ञामनुपश्यन्पुरुषः कुशल इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति ॥२७॥
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि 2.27 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine