विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (योगसूत्रम्)
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः इति सूत्रम्। अथ - अधुना । असम्प्रज्ञातः समाधिः -- असम्प्रज्ञातसमाधिः । किमुपायः - कः उपायो यस्य सः किमुपायः, एतस्य समाधेः कः उपायः भवति। किं स्वभावो वा - एतस्य समाधेः कः स्वभावो भवति, उत तस्य स्वरूपं किं भवति? इति एतस्मिन् विषये सूत्रमिदं कथयति।
शब्दार्थः
सम्पादयतु• विराम = cessation, stopping, receding
सर्वाभ्यः वृत्तिभ्यः अस्तः; तासां निरोधः
• प्रत्यय = cause, cognitive principle, content of mind, cognition
विराम-प्रत्ययः तस्य कारणम् अर्थात् 'परवैराग्यम्'
• अभ्यास = practice
परवैराग्यस्य अभ्यासपूर्वकः जायमानः समाधिः
• पूर्वः = preceding, coming before
• संस्कार = deep impressions, imprints in the unconscious, deepest habits, subliminal activators, traces
• शेषः = residual, subliminal
• अन्यः = the other (the other samadhi)
सूत्रसारः
सम्पादयतुपरवैराग्यस्य अभ्यासपूर्वकः, एवञ्च ( निरोध-)संस्कारमात्रावशिष्टः ( चित्तयुक्तः) समाधिः सम्प्रज्ञातसमाधिभिन्नः ( असम्प्रज्ञातः ) उच्यते॥
सर्वासां वृत्तीनाम् अस्ततायाः अनन्तरं चित्तस्य ( निरोध-)संस्कारशेषः ( केवलं ) निरोधः, असम्प्रज्ञातसमाधिः उच्यते। तस्य उपायः परवैराग्यम् अस्ति। सालम्बनः अभ्यासः एतस्य परवैराग्यस्य सिद्धौ समर्थः न भवति, अत एव सकलविषयहीनं परवैराग्यम् एव (एतस्मिन्) आधारः भवति। सश्च (परवैराग्यः) पदार्थहीनः उत सकलविषयशून्यः भवति। तस्य अभ्यासपूर्वकं चित्तं निरालम्बनं, स्वभावशून्यं च प्रतीयते। एषः निर्बीज-समाधिः असम्प्रज्ञातः उच्यते।
The other kind of समाधिः is असम्प्रज्ञातसमाधिः, and has no object in which attention is absorbed, wherein only latent impressions remain; attainment of this state is preceded by the constant practice of allowing all of the gross and subtle fluctuations of mind to recede back into the field from which they arose.
व्यासभाष्यम्
सम्पादयतुअसम्प्रज्ञातः समाधिः किमुपायः किं स्वभावो वेति — सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यास-स्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलबनीक्रियते। स चार्थशून्यः। तदभ्यासपूर्व चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधि रसम्प्रज्ञातः ॥१८॥
भाष्यार्थः
सम्पादयतुविरामः - सकलवृत्तीनामुपरमः, सर्वाभ्यः वृत्तिभ्यः अस्तः; तासां निरोधः च। तस्य प्रत्ययः - कारणम्, विराम-प्रत्ययः तस्य कारणम् अर्थात् 'परवैराग्यम्' । तस्य ( परवैराग्यस्य ) अभ्यासः - पौनःपुन्येन अनुष्ठानं पूर्वं यस्य सः विरामप्रत्ययाभ्यासपूर्वः, तस्य विरामप्रत्ययस्य अर्थात् परवैराग्यस्य अभ्यासः पूर्वे (आरम्भे) ( कारणरूपात् पूर्वम्) अस्ति, यस्य सः समाधिः, अर्थात् परवैराग्यस्य अभ्यासपूर्वकः जायमानः समाधिः । संस्कारशेषः - ( निरोध-)संस्काराः एव शेषाः यस्मिन्नसौ संस्कारशेषः, केवलं निरोधसंस्काराः एव ( चित्ते) शेषाः भवन्ति यत्र, सः समाधिः । अन्यः - सम्प्रज्ञातादन्यः अर्थात् 'असम्प्रज्ञातः समाधिः,' सम्प्रज्ञातभिन्नः 'असम्प्रज्ञात'-नामकः समाधिः अस्ति। 'विरामः वृत्तीनामभावस्तस्य प्रत्ययः कारणं तस्याभ्यासः तदनुष्ठानं पौनःपुन्येन, तदेव पूर्वं यस्य स तथा' ।
सकलवृत्तिभ्यः निरोधः एव विरामः, तस्य विरामस्य प्रत्ययः अर्थात् कारणं परवाराग्यं भवति। तस्य परवैराग्यस्य पौनःपुन्येन अनुष्ठानपूर्वकम् अभ्यासः आरम्भे यस्य, सः निरोधसंस्करशेषः समाधिः अन्यः असम्प्रज्ञातः समाधिः उच्यते।
सूत्रेऽस्मिन् 'विरामप्रत्ययाभ्यासपूर्वः'-पदस्य माध्यमेन असम्प्रज्ञातसमाधेः 'उपायः' उक्तः अस्ति। 'संस्कारशेषः-पदस्य माध्यमेन असम्प्रज्ञातसमाधेः स्वरूपम् उत लक्षणम् उक्तम् अस्ति। एवञ्च 'अन्यः'-पदस्य माध्यमेन लक्ष्यभूतस्य 'असम्प्रज्ञातसमाधेः' 'निर्देशः' कृतः अस्ति। 'तथा चाद्यविशेषणेनोपायकथनं मध्येन लक्षणकथनमन्त्येन लक्ष्यकथनमन्योऽसम्प्रज्ञात इत्यर्थः॥
सर्ववृत्तिप्रत्यस्तमये - सर्वासां वृत्तीनां प्रत्यस्तमयः अस्तंगमनम्, तस्मिन् सति इति ( भावे सप्तमी)। सर्वासां वृत्तीनां प्रत्यस्तमिते उत अस्तङ्गते सति। सर्ववृत्तिनिरोधे सति। चित्तस्य संस्कारशेषो निरोधः - चित्तस्य संस्कारमात्रावशिष्टरूपयुक्तः सर्ववृत्तिनिरोधः अर्थात् एतादृशः सर्वाङ्गीणः निरोधः, येन चित्ते केवलं निरोधसंस्कारः एव अवशिष्टः भवति। न काऽपि वृत्तिः अवशिष्टा भवेत् एवञ्च न वृत्तीनां संस्काराः एव अवशिष्टाः भवेयुः। तादृशस्य चित्तस्य निरोधः। असम्प्रज्ञातः समाधिः - असम्प्रज्ञात-नामकः समाधिः भवति। 'न तत्र किश्चिद् वेद्यं सम्प्रज्ञायते इति असम्प्रज्ञातो निर्बीजः समाधिः ।
तस्य- तस्य असम्प्रज्ञातसमाधेः। उपायः - उपायः, साक्षात्साधनम् । परं वैराग्यम्- परवैराग्यम् अस्ति। सालम्बनो हि अभ्यासः-(ध्येयविषयः अर्थात् ) आलम्बन-सहितः जायमानः अभ्यासः अर्थात् चित्तस्य एकाग्रतायाः अभ्यासः। 'पुरुषपर्यन्तं कस्मिन्नप्यालम्बने चित्तस्यैकाग्रतारूपोऽभ्यासः नासम्प्रज्ञातस्य साक्षात्साघको भवति।
तत्साधनाय न कल्पत इति तदुपायाय न प्रभवति - तस्य साक्षात्साधनं भवितुं समर्थं न भवति। इति–हेतोः, अत एव । निर्वस्तुकः विरामप्रत्ययः - वस्तुशून्यम्, ज्ञेयरहितम्, परवैराग्यम्। आलम्बनीक्रियते - उपादीयते, स्वीक्रियते, गृह्यते। 'विरामप्रत्ययः परवैराग्यारम्भः एवासम्प्रज्ञातेन साधनतयाऽऽलम्बनीक्रियते आश्रीयते'।
स चार्थशून्यः - यतो हि सः असम्प्रज्ञातसमाधिः अपि ध्येयः विषयशून्यः एव भवति, अत एव निरालम्बनसमाधेः उपायरूपे निर्वस्तुकस्य 'परवैराग्य'स्य अभ्यासस्य एव स्वीकार-करणं योग्यं भवति। तदभ्यासपूर्वं चित्तम् - तस्य (निर्वस्तुक-परवैराग्यस्य) अभ्यासः पूर्वः यस्य तत्, तदभ्यासपूर्वं चित्तम् अर्थात् तस्य ध्येयार्थशून्यस्य परवैराग्यस्य अभ्यासं प्राप्तवत् चित्तम् । निरालम्बनम् (अर्थात्) अभावप्राप्तमिव - आलम्बनहीनम् अर्थात् स्वभावशून्यवत्। भवति – जायते। इति– एवंरीत्या। एषः निर्बीजः - एषः निरालम्बनः, आलम्बनहीनः, समाधिः - असम्प्रज्ञातः समाधिः भवति।
यद्यपि 'निर्बीज'-शब्दस्य त्रयः अपि अर्थाः सङ्गताः सन्ति -
(१) निरालम्बनम्
(२) क्लेशकर्माशयरूपबीजेभ्यः शून्यम्
(३) ज्ञानाज्ञानसंस्काररहितम् ।
तथाऽपि 'निरालम्बन'-अर्थः अधिकः भाष्यानुकुलः प्रतीयते॥
स खल्वयं द्विविधः-उपायप्रत्ययो भवप्रत्ययश्च। तत्रोपायप्रत्ययो योगिनां भवति।
सः असम्प्रज्ञातसमाधिः द्विप्रकारकः भवति - (१) उपायप्रत्ययः (२) भवप्रत्ययः च । तयोः 'उपायप्रत्ययः' असम्प्रज्ञातसमाधिः, योगिनां भवति। अपरस्य समाधेः विषये अग्रिमे सूत्रे उक्तम् अस्ति।
विशेषव्याख्या
सम्पादयतु- प्रत्यस्तमितः - अस्तगमनम्
- विरामप्रत्यययः - चित्तस्य सर्ववृत्तिभ्यः निरोधकारणम् अर्थात् परवैराग्यः
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine