स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)
सूत्रसारः
सम्पादयतुसूत्रार्थः
सम्पादयतुतस्य अभ्यासस्य तु दीर्घकालपर्यन्तं, सततं, सत्कारसहितं च आसेवितः (पुनरावृत्त्या) दृढभूमिः भवति॥ १४ ॥
दीर्घकालपर्यन्तं, सततं, तपस्या-ब्रह्मचर्य-विद्या-श्रद्धाभिः (सत्कारेण) सह कृतः आसेवितः अभ्यासः, ( अतः सः) सत्कारवान् अभ्यासः दृढभूमिः भवति, ( अर्थात् ) व्युत्थानसंस्कारद्वारा () शीघ्रं हि अभिभूतः न भवति॥
When that practice is done for a long time, without a break, and with sincere devotion, then the practice becomes a firmly rooted, stable and solid foundation.
शब्दार्थः
सम्पादयतु• सः = that (practice) सः अभ्यासः
• तु = and, but, however,
• दीर्घकाल = long time (दीर्घः = long; कालः = time)
• नैर्यन्तर्य = without interruption, continually,
• सत्कार = with devotion, sincerity, respect, reverence, positive attitude, right action
• आसेवितः = frequented, pursued, practiced, cultivated, attended to, done with assiduous attention
आसेवित¦ त्रि॰ आ + सेव--क्त। पौनःपुन्येनसेविते च भावे क्त।
• दृढभूमिः = stable, solid foundation, firmly rooted, of firm ground (दृढा = firm; भूमिः = ground)
व्यासभाष्यम्
सम्पादयतुदीर्घकालसेवितो निरन्तरसेवितः सत्कारासेवितः । तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥१४॥
स तु- अभ्यासस्तु, सः अभ्यासस्तु, दीर्घकालनैरन्तर्यसत्कारासेवितो - दीर्घकालः नैरन्तर्यं सत्कारश्चेति (इतरेतरद्वन्द्वसमासः) दीर्घकालनैरन्तर्यसत्काराः, तैः आसेवितः तथोक्तः । दीर्घकालं यावत्, निरन्तरतया, सत्कारपूर्वकं कृतः अभ्यासः । दृढभूभिः ( भवतीति शेषः ) - दृढा भूमिः यस्यासौ ( बहुव्रीहिसमासः ), सुदृढः भवति, परिनिष्ठितः भवति॥ १४॥
विशेषावबोधः
सम्पादयतुदीर्घकाल+आसेवितः- दीर्घकालेन दीर्घकालपर्यन्तं वा आसेवितः, अनुष्ठितः, सम्पादितः, दीर्घकालं यावत् कृतः अभ्यासः। निरन्तरासेवितः - नैरन्तर्येणासेवितः, निरन्तरतापूर्वं कृतम् अर्थात् नियमिततया प्रतिदिनं कृतः अभ्यासः। 'प्रत्यहं प्रतिक्षणमासेवितः । 'आसुषुप्तेरिति भाष्यार्थः । सत्कारेण च आसेवितः - सत्कारः आदरातिशयः, तेन सह । अर्थात् तपसा तपस्या उत द्वन्द्वादिसहनपूर्वकम् । ब्रह्मचर्येण - वीर्यरक्षापूर्वकम् । विद्यया - शास्त्रज्ञानपूर्वकम्। श्रद्धया च - एवञ्च योगं प्रति आदरातिशयपूर्वकं कृतः अभ्यासः । सत्कारवान् - सत्कृतः, सुसेवितः अभ्यासः । भाष्यकारः 'सत्कारपूर्वक'स्य व्याख्यानम् - तपस्यायुक्तः, ब्रह्मचर्ययुक्तः, श्रद्धासम्पन्नः, ज्ञानपूर्वकः च अभ्यासः उक्तः। योगाभ्यासं प्रति 'सत्कारः' तपस्यादिभिः चतुर्भिः मन्यते। एवं छान्दोग्योपनिषदि अपि प्रमाणम् अस्ति -
'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति ।[१]
अर्थात्, विद्यया, श्रद्धया, वेदानां रहस्यैः (उपनिषद्भिः) च यः कर्म करोति, सः तस्मै अधिकः वीरः, पराक्रमी च भवति।
दृढभूमिर्भवति – सुस्थिरः उत सुदृढः अभ्यासः भवति। एतस्य पदस्य तात्पर्यम् अस्ति यत्, व्यूत्थान-संस्कारेभ्यः, द्रागित्येव - शीघ्रं हि। अनभिभूतविषयः - अभिभूतः न भवेत् उत खण्डितः न भवति इत्यर्थः — अत्र आशयः उत तात्पर्यम् अस्ति यत्, एषः अभ्यासः उत चित्तैकाग्र्यः प्रबलव्युत्थानसंस्कारेभ्यः अभिभूतः भवत्येव एवञ्च तदैव समाधिदशायाः निर्गत्य साधकः लौकिकदशायाम् उत व्युत्थान-अवस्थायां पतति। यदि एवं न भवेत्, तर्हि साधकस्य भोजन-पेय-शयनादिकं सर्वोऽपि लौकिकः व्यापारः असम्भवः भवेत्। अभ्यासस्य दृढभूमिः सिद्धा भवति, तेन लाभः भवति यत् समाधिः अतीव शीघ्रतया भग्ना न भवति, अपि तु दीर्घकालं यावत् स्थिरा भवति। तदैव समाधेः अग्रिम-भूमिकासु विजय-क्रमे बाधा न भवति। पश्चात् इच्छानुसारम् उत निश्चयानुसारं समाधौ प्रवेशः, ततश्च निर्गमनं शक्यते। तेन लोकव्यवहारस्य मर्यादा अपि प्रचलति, समाधिसिद्धिश्चापि भवति। अत एव भाष्यकारः 'द्रागित्येव' पदस्य प्रयोगम् अकरोत्। 'अभ्यासं कृत्वोपरमे च कालक्रमादभिभवो भवत्येवेति प्रतिपादयितुं द्रागित्येवेत्युक्तम्' ॥१४॥
विशेषम्
सम्पादयतुविशेषव्याख्या
सम्पादयतु1) व्युत्थानम् - व्युत्थानकाले चित्ते रजोगुणस्य प्रभावः वर्धते। तेन चित्तम् अस्थिरतायुक्तं भवति। निरोधसंस्काराणां योग्य-अभ्यासेन एव चित्तस्य स्थितिः अतीव शान्ता भवति। यदा निरोध-संस्कारस्य प्रभावः न्यूनः भवति, तदा व्युत्थानस्य संस्काराः प्रभाविताः भवन्ति।
2) सत्कारवान्/सत्कारासेवितः अभ्यासः - तपस्या, ब्रह्मचर्यं, विद्या श्रद्धा इत्येतैः युक्तः अभ्यासः, अत्यादरपूर्वकः अभ्यासः च सत्कारवान्/सत्कारासेवितः अभ्यासः उच्यते।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतु- ↑ छान्दोग्योपनिषद् 1/1/10
अधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine