यच्चावहासार्थम्...

(११.४२ यच्चावहासार्थम्... इत्यस्मात् पुनर्निर्दिष्टम्)


 
गीतोपदेशः
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्विचत्वारिंशत्तमः(४२) श्लोकः ।

पदच्छेदः

सम्पादयतु

यत् च अवहासार्थम् असत्कृतः असि विहारशय्यासनभोजनेषु एकः अथवा अपि अच्युत तत्समक्षं तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ ४२ ॥

तव महिमानम् इदम् अजानता मया प्रमादात् प्रणयेन वा अपि यत् सखा इति मत्वा प्रसभं हे कृष्ण हे यादव हे सख इति उक्तम्, विहारशय्यासनभोजनेषु अपहासार्थम् एकः अथवा तत्समक्षं वा यत् असत्कृतः असि अच्युत ! तत् (सर्वम्) अहम् अप्रमेयं त्वां क्षामये ।

शब्दार्थः

सम्पादयतु
सखा इति = वयस्यः इति
मत्वा = विचिन्त्य
प्रसभम् = प्रसह्य
तव महिमानम् इदम् = तव माहात्म्यमिदं विश्वरूपम्
अजानता = अनवगच्छता
प्रमादात् = मनोविक्षेपेण
प्रणयेन वा अपि = प्रेम्णा वा अपि
यत् उक्तम् = यत् आलपितम् ।
विहारशय्यासनभोजनेषु = सञ्चारे,शयने, उपवेशने, भक्षणे च
अवहासार्थम् = परिहासाय
एकः = मित्रैः रहितः
अथवा = यद्वा
तत्समक्षम् = मित्राणां पुरतः
असत्कृतः = परिभूतः
असि इति यत् = भवसि इति यत्
अच्युत = विष्णो !
तत् = तत् सर्वम्
अप्रमेयम् = प्रमाणागोचरम्
त्वां क्षामये = यथा त्वं क्षाम्यसि तथा करोमि ।

हे कृष्ण ! तवेदं माहात्म्यम् अनवगच्छन् अहं पूर्वम् अनवधानेन प्रणयेन वा साधारणपुरुषधिया हे कृष्ण ! हे यादव ! हे सखे ! इत्यादिना शब्देन त्वां सम्बोधितवान् तथा विहारे शयने उपवेशने भोजने च मित्राणां पुरतः पृतो वा त्वाम् अपहासार्थम् तिरस्कृतवान् तत्सर्वं यथा त्वं मां क्षाम्यसि तथा करोमि । अर्थात् तदपराधप्रायश्चित्तार्थं शुश्रूषानमस्कारादिकं सर्वमपि इदानीं करोमि इत्यर्थः ।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wiki.x.io/w/index.php?title=यच्चावहासार्थम्...&oldid=418738" इत्यस्माद् प्रतिप्राप्तम्