कालोऽस्मि लोकक्षयकृत्...
(११.३२ कालोस्मि लोकक्षयकृत्... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवानुवाच -
- कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।
- ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वात्रिंशत्तमः(३२) श्लोकः ।
पदच्छेदः
सम्पादयतुकालः अस्मि लोकक्षयकृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः ऋते अपि त्वां न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
अन्वयः
सम्पादयतुलोकक्षयकृत् प्रवृद्धः कालः अस्मि । लोकान् समाहर्तुुम् इह प्रवृत्तः । त्वाम् ऋते प्रत्यनीकेषु ये अवस्थिताः योधाः सर्वे अपि न भविष्यन्ति ।
शब्दार्थः
सम्पादयतु- लोकक्षयकृत् = लोकविनाशकः
- प्रवृद्धः = बृंहितः
- कालः = समयः
- अस्मि = भवामि
- लोकान् = भुवनानि
- समाहर्तुम् = उपसंहर्तुम्
- इह प्रवृत्तः = अत्र व्यापृतः
- त्वाम् ऋते = त्वां विना
- प्रत्यनीकेषु = परसैन्येषु
- अवस्थिताः = उपस्थिताः
- ये योधाः = ये योद्धारः
- सर्वे अपि = ते सकलाः अपि
- न भविष्यन्ति = न स्थास्यन्ति ।
अर्थः
सम्पादयतुअहं सर्वान् लोकान् संहर्तुं प्रवृद्धः कालोऽस्मि । प्रतिपक्षसैन्येषु ये योधाः सन्ति भीष्मद्रोणप्रभृतयः तान् त्वं न मारयसि चेदपि अवश्यं मया ते मारिताः भविष्यन्ति ।