भूय एव महाबाहो...
(१०.१ भूय एव महाबाहो.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- श्रीभगवानुवाच
- भूय एव महाबाहो शृणु मे परमं वचः ।
- यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
सम्पादयतुभूय एव महाबाहो शृणु मे परमं वचः यत् ते अहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
अन्वयः
सम्पादयतुमहाबाहो ! भूयः एव मे परमं वचः शृणु यत् अहं प्रीयमाणाय ते हितकाम्यया वक्ष्यामि ।
शब्दार्थः
सम्पादयतुमहाबाहो = अर्जुन
- भूयः एव = पुनः अपि
- मे = मम
- परमम् = उत्कृष्टम्
- वचः = वचनम्
- शृणु = आकर्णय
- यत् = यद्वचनम्
- अहम् = एषोऽहम्
- प्रीयमाणाय = सन्तुष्यते
- ते = तुभ्यम्
- हितकाम्यया = हितेच्छया
- वक्ष्यामि = वदिष्यामि ।
अर्थः
सम्पादयतुमहाबाहो ! पुनः अपि मम उत्कृष्टं वचनम् आकर्णय यत् अहं मम वचनेन सन्तुष्यते ते हितेच्छया वदिष्यामि ।
रामानुजभाष्यम्
सम्पादयतुभक्तियोगं सपरिकर उक्तम् । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भगवतो निरङ्कुशैश्वर्यादिकल्याणगुणगणानन्त्यं, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनाय भूयो मन्माहात्म्यप्रपञ्चविषयमेव परमं वचो यद्वक्ष्यामि तदवहितमनां सृणु ॥१०.१॥