सदस्यः:Kuldeepburjbhalaike/प्रयोगपृष्ठम्
ब्राह्मणम् मेदिनीकोशानुसारं वेदभागसूचकोऽयं ब्राह्मणशब्दः नपुंसकलिंगे प्रयुज्यते। यथोक्तं –“ ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम्” इति। भट्टभास्करमतानुसारं- “ ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः” इति। वाचस्पतिमिश्रः लिखति-
नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम्।
प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥ यज्ञकर्मकाण्डस्य विस्तृतव्याख्या येन क्रियते सः ब्राह्मणग्रन्थ इत्युच्यते। ब्राह्मणग्रन्थः यज्ञानां, वैज्ञानिकाध्यात्मिकाधिभौतिकमीमांसानां प्रतिपादकः विश्वकोश इति वलदेवोपाध्यायेनोक्तम्। सायणमतानुसारं यः परम्परानुसारं मन्त्रः न भवति स ब्राह्मणः। शतपथब्राह्मणानुसारं – ब्रह्म वै मन्त्रः। (अधिकवाचनाय »)