रुद्रादित्या वसवो ये...
(रुद्रादित्या वसवो - 11.22 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
- गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वाविंशतितमः(२२) श्लोकः ।
पदच्छेदः
सम्पादयतुरुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वां विस्मिताः च एव सर्वे ॥ २२ ॥
अन्वयः
सम्पादयतुरुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च ऊष्मपाः च गन्धर्वयक्षासुरसिद्धसङ्घाः सर्वे विस्मिताः एव त्वां वीक्षन्ते ।
शब्दार्थः
सम्पादयतु- रुद्रादित्याः = एकादश रुद्राः द्वादशादित्याश्च
- वसवः = अष्ट वसवः
- ये च साध्याः = ये अपि साध्याः
- विश्वे = विश्वेदेवाः
- अश्विनौ = देवभिषजौ
- मरुतः च = मरुद्गणाः
- ऊष्मपाः च = पितृगणाः
- गन्धर्वयक्षासुरसिद्धसङ्घाः = गन्धर्वयक्षासुरसिद्धसमूहाः
- सर्वे = सकलाः
- विस्मिताः च एव = आश्चर्यान्विताः च
- त्वां वीक्षन्ते = त्वां पश्यन्ति ।
अर्थः
सम्पादयतुरुद्राः आदित्याः वसवः साध्याः विश्वेदेवाः देवभिषजौै मरुद्गणाः पितृगणाः गन्धर्वाणां यक्षाणाम् असुराणां सिद्धानां च समूहाः सर्वेऽपि आश्चर्यान्विताः त्वां पश्यन्ति ।