माषः
एषः माषः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं सस्यजन्यः आहारपदार्थः । अयम् आङ्ग्लभाषायां Black gram इति उच्यते । माषः अधरस्य रुचिवर्धकः । किन्तु न तावान् उदरस्य हितकरः । भारतीयेषु प्राचीनेषु शास्त्रेषु माषस्य उपयोगः एव निषिद्धः अस्ति । यतः माषः बुद्धिं न्यूनीकरोति, अथवा बुद्धेः वर्धनस्य अवरोधकः इति । कुरुविन्दः, वृषाकरः, मांसलः, बलाढ्यः, पित्र्यः, पितृजोत्तमः इत्यादीनि अपि नामानि सन्ति माषस्य । दिवं गताः पितरः अपि वर्षे एकवारं काकरूपेण भुवम् आगत्य माषं सेवन्ते इति । तदर्थम् एव “श्राद्ध”कार्येषु माषस्य किमपि एकं वा खाद्यपदार्थं निर्मान्ति एव । दक्षिणभारतस्य प्रसिद्धः उपहारः “इड्लि”निर्माणार्थं माषः अत्यावश्यकः एव । दोसानिर्माणे, वटकनिर्माणे, शष्कुलिनिर्माणे, व्याघरणे च माषः उपयुज्यते एव ।
आयुर्वेदस्य अनुसारम् अस्य माषस्य स्वभावः
सम्पादयतुमाषः मधुररुचिप्रधानः । गुणे उष्णः, स्निग्धः (नैर्यासस्वभावयुक्तः) च । पचनार्थं जडः । मलस्य प्रमाणं वर्धयति । देहस्य धातूनां पोषकः । पुरुषेषु वीर्यवर्धकः, स्त्रीषु आर्तववर्धकः च । अयं माषः वातहरः कफवर्धकः च । पित्तम् उत्पादयति, रक्तं च अशुद्धीकरोति ।
- “माषो गुरुभिर्न्नपुरीषमूत्रः स्निग्धोष्णवृष्यो मधुरोऽनिलघ्नः ।
- सन्तर्पणः स्तन्यकरो विशेषाद्बलप्रदः शुक्रकफावहश्च ॥“ (सु.सू.४६-३४)
- १. माषः पचनार्थं जडः इति कारणात् नित्योपयोगार्थं न युक्तः ।
- २. अत्यन्तं श्रमजीविनां हितकरः माषः ।
- ३. माषेण निर्मितैः खाद्यपदार्थैः सह शुण्ठ्या वा, जीरिकया वा, हिङ्गुना वा निर्मितं किमपि सेवन्ते चेत् दोषस्य परिहारः भवति, शीघ्रं जीर्णम् अपि भवति । उदाहरणार्थम् – “इड्लि” इत्याख्येन आहारपदार्थेन सह शुण्ठ्याः उपसेचनं खादनीयम् ।
- ४. पित्तप्रकोपः, आम्लपित्तं (Acidity), त्वग्रोगः, प्रमेहः, रक्तव्याधिः वा अस्ति चेत् माषः अपथ्यः एव ।
- ५. मलक्षययुक्तानां माषः हितकरः । (जीर्णशक्तेः विषये अपि अवधानं भवेत्)
- ६. माषः कफकारकः । श्वासोच्छ्वासव्याधिः, कासः वा अस्ति चेत् माषः न हितकरः ।
- ७. ज्वरावस्थायां, पाचनशक्तेः न्यूनत्वे च माषः न उपयोक्तव्यः ।
- ८. माषः बलवर्धकः, पुरुषेषु वीर्यवर्धकः च । वीर्यक्षयः अस्ति चेत् माषस्य उपयोगः हितकरः ।
- ९. माषः स्त्रीषु आर्तववर्धकः । अतः किशोरावस्थातः यौवनावस्थां प्रति पादार्पणं कुर्वतीनां युवतीनां हितकरः माषः ।