भवाप्ययौ हि भूतानां...
(भवाप्यायौ हि - 11.2 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
- त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य द्वितीयः(२) श्लोकः ।
पदच्छेदः
सम्पादयतुभवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया त्वत्तः कमलपत्राक्ष माहात्म्यम् अपि च अव्ययम् ॥ २ ॥
अन्वयः
सम्पादयतुकमलपत्राक्ष ! भूतानां भवाप्ययौ हि विस्तरशः त्वत्तः मया श्रुतौ । अव्ययं माहात्म्यम् अपि च ।
शब्दार्थः
सम्पादयतु- कमलपत्राक्ष = पद्मपत्रनेत्र !
- भूतानाम् = प्राणिनाम्
- भवाप्ययौ = उत्पत्तिप्रलयौ
- विस्तरशः = वैपुल्येन
- त्वत्तः = तव सकाशात्
- मया श्रुतौ = मया आकर्णितौ
- अव्ययम् = अक्षयम्
- माहात्म्यम् अपि च = प्रभावोऽपि (श्रुतः) ।
अर्थः
सम्पादयतुहे पद्मपत्रनेत्र, श्रीकृष्ण ! प्राणिनाम् उत्पत्तिं प्रलयं च भवतः मुखात् विस्तरेण अहं श्रुतवान् । भवतः अक्षयं प्रभावमपि श्रुतवान् ।