न द्वेष्ट्यकुशलं कर्म...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
- त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १० ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य दशमः(१०) श्लोकः ।
पदच्छेदः
सम्पादयतुन द्वेष्ट्यकुशलं कर्म कुशले न अनुषज्जते त्यागी सत्त्वसमाविष्टः मेधावी छिन्नसंशयः ॥
अन्वयः
सम्पादयतुसत्त्वसमाविष्टः छिन्नसंशयः मेधावी त्यागी अकुशलं कर्म न द्वेष्टि । कुशले न अनुषज्जते ।
शब्दार्थः
सम्पादयतु- सत्त्वसमाविष्टः = सत्त्वोद्रेकसम्पन्नः
- छिन्नसंशयः = अपगतसन्देहः
- मेधावी = बुद्धिमान्
- अकुशलम् = अशोभनम्
- कुशले = शोभने
- अनुषज्जते = प्रीतिं करोति ।
अर्थः
सम्पादयतुसत्त्वगुणेन आविष्टः यः पुरुषः सः शैत्यकाले यत् प्रातःस्नानादि क्लेशकरं कर्म वर्तते तत्र न द्वेषं करोति, ग्रीष्मकाले तादृशमेव यत् सुखकरं कर्म वर्तते तत्र न प्रीतिं भजते । सः एव त्यागी, सः एव प्राज्ञः, स एव च सन्देहरहितः ।