न च मत्स्थानि भूतानि...

भगवद्गीतायाः श्लोकः ९.५


 
गीतोपदेशः
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चमः(५) श्लोकः ।

पदच्छेदः

सम्पादयतु

न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् भूतभृत् न च भूतस्थः मम आत्मा भूतभावनः ॥ ५ ॥

(वस्तुतः) भूतानि मत्स्थानि न । भूतभृत् च भूतभावनः च मम आत्मा भूतस्थः न । ऐश्वरं मे योगं पश्य ।

शब्दार्थः

सम्पादयतु
भूतानि = सकलवस्तूनि
न च = न अपि
मत्स्थानि = मयि स्थितानि
भूतभृत् = भूतधृत्
भूतस्थः = भूतस्थितः
न च = न अपि
मम = मे
आत्मा = स्वरूपम्
भूतभावनः = भूतोवकरः
मे = मम
ऐश्वरम् = असाधारणम्
योगम् = अघटितघटनाचातुर्यम्
पश्य = अवलोकय ।

यद्यपि अहं भूतानि सृजामि, तानि धारयामि तथा पालयामि इति तानि भूतानि मयि सन्ति इति सर्वे निर्णयन्ति, तथापि सरहितत्वात् भूतानि मयि न सन्ति इति वस्तुस्थितिः । इदमेव मम अघटित - घटनाचातुर्यरूपम् ऐश्वर्यम् । तदेव मम मायावैभवम् ।

सम्बद्धसम्प्र्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wiki.x.io/w/index.php?title=न_च_मत्स्थानि_भूतानि...&oldid=418622" इत्यस्माद् प्रतिप्राप्तम्