नान्देडमण्डलम्
नान्देडमण्डलं (मराठी: नान्देड जिल्हा, आङ्ग्ल: Nanded District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नान्देड इत्येतन्नगरम् | मण्डलमिदं 'नान्देड गुरुद्वारा' इति सिक्खसम्प्रदायिनां स्थानार्थं प्रसिद्धम् ।
नान्देडमण्डलम् Nanded District नान्देड जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये नान्देडमण्डलम् | |
देशः | India |
जिल्हा | नान्देडमण्डलम् |
उपमण्डलानि | अर्धापूर, भोकर, बिलोली, देगलूर, धर्माबाद, हदगाव, हिमायतनगर, कंधार, किनवट, लोहा, माहूर, मुदखेड, मुखेड, नांदेड, नायगाव, उमरी |
विस्तारः | १०,४२२ च.कि.मी. |
जनसङ्ख्या(२०११) | ३३,६१,२९२ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://nanded.nic.in |
इतिहासः
सम्पादयतुमहाराष्ट्रराज्यस्य मराठवाडा-विभागे स्थितम्, ऐतिहासिकदृष्ट्याऽपि महत्त्वपूर्णं मण्डलमिदम् । महिमभट्टस्य 'लिळाचरित्रम्' इत्यस्मिन् ग्रन्थे नान्देडविभागस्य उल्लेखः लभ्यते । नान्देडविभागपरिसरे सातवाहन-चालुक्य-राष्ट्रकूट-देवगिरियादव-बहामनीराजानाम् आधिपत्यमासीत् । यदा औरङ्गजेब दख्खनाधिपत्ये आसीत् तदा नान्देडप्रदेशस्य अपि समावेशः आसीत् तस्मिन् । अनन्तरं परिसरोऽयं 'तेलङ्गाणा'विभागे समाविष्टः जातः । औरङ्गजेब इत्यस्य मृत्योः अनन्तरं औरङ्गजेब-पुत्रेण सह सिक्खपन्थीयानां दशमः गुरूः गुरुगोविन्दसिंहः अत्र आगत्य निवासं कृतवान् । तदा सः अत्रस्थानां सिक्खसम्प्रदायिनां मार्गदर्शनं कृतवान् । सः तस्य जीवनस्य अन्तिमकाले नान्देडमण्डले आसीत् । अस्य स्मृत्यर्थं नान्देडस्थाने गुरुद्वाराणां निर्माणं जातम् । तदनन्तरम् अयं प्रदेशः हैदराबाद-संस्थाने समाविष्टः । स्वातन्त्र्योत्तर-काले महाराष्ट्रराज्ये मण्डलत्वेन इदं समाविष्टम् ।
भौगोलिकम्
सम्पादयतुनान्देडमण्डलस्य विस्तारः १०,४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि आन्ध्रप्रदेशराज्यं, पश्चिमदिशि लातूरमण्डलं, परभणीमण्डलं च, उत्तरदिशि यवतमाळमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले ९५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी गोदावरी नदी अस्ति । मण्डलस्य उत्तर-ईशान्यभागयोः सातमाळपर्वतावलिः, मुदखेड उपशैलाः सन्ति ।
कृष्युत्पादनम्
सम्पादयतुआमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनालः(ज्वारी), कार्पासः, सोयाबीन, 'तूर', माषः, कलायः, कुसुम्भं(करडई), शमा(जवस), मुद्गः, मरीचिका, कदलीफलम्, इक्षुः इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूमः, चणकः, यवनालः (ज्वारी), 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । वनपूरितपर्वतेषु शाकोटकवृक्षाः(साग), वंशवृक्षः(bamboo) च सन्ति । बीडमण्डलेऽपि कृषिः वृष्ट्यअवलम्बिताऽस्ति ।
जनसङ्ख्या
सम्पादयतुनान्देडमण्डलस्य जनसङ्ख्या(२०११) ३३,६१,२९२ अस्ति । अस्मिन् १७,३०,०७५ पुरुषाः १६,३१,२१७ महिलाः सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.८४% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ७५.४५% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले षोडश-उपमण्डलानि सन्ति । तानि-
१ अर्धापूर २ भोकर ३ बिलोली ४ देगलूर ५ धर्माबाद ६ हदगाव ७ हिमायतनगर ८ कन्धार ९ किनवट १० लोहा ११ माहूर १२ मुदखेड १३ मुखेड १४ नान्देड १५ नायगाव(खैरगाव) १६ उमरी
लोकजीवनम्
सम्पादयतुमण्डलेऽस्मिन् ७३% जनाः ग्रामेषु निवसन्ति । तेषां उपजीविकासाधनं कृषिसम्बद्धानि कार्याणि एव अस्ति । उद्यमानां विकासः न्यूनः अस्ति । मण्डलजनाः मराठी-उर्दू-तेलुगु-वञ्जारी-भाषाः भाषन्ते । नान्देडमण्डले इतिहास-गणाः, चित्रशालाः, गायन-वादनविद्यालयाः, संस्कृतपाठशालाः, नैकाः शिक्षणसंस्थाः, नाट्यसङ्घाः, महिलासङ्घाः इत्यादयः सांस्कृतिकसंस्थाः कार्यरताः सन्ति । अत्रस्थाः जनाः उत्सवप्रियाः सन्ति ।
व्यक्तिविशेषाः
सम्पादयतुमण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । यथा – गुरुगोविन्दसिंहः यः स्वस्य जीवनस्य अन्तिमकालम् अत्र यापितवान् । श्रीमतः वामन पण्डित इत्यस्य जन्मस्थानमस्ति मण्डलमिदम् ।
वीक्षणीयस्थानानि
सम्पादयतु- सचखण्डगुरुद्वारा
- रेणुकादेवी, माहूर
- सहस्रकुण्ड-जलप्रपातः
- उष्णजलकुण्डानि, उङ्केश्वर
- कन्धार-दुर्गः
- सिद्धेश्वरमन्दिरम्, देगलूर, होट्ट्ल
- दुर्गः, नान्देडनगरम्
- शिवमन्दिरम्, मुदखेड
- अपरम्पार-स्वामिनः समाधिस्थलम्, मुदखेड
- जलसिञ्चन-प्रकल्पः, शङ्करसागर-जलाशयः, असरजन
- केशवराज-मठ
- बारालिङ्ग-मन्दिरम्
बाह्यसम्पर्कतन्तुः
सम्पादयतु