नन्दुरबारमण्डलम्
नन्दुरबारमण्डलं (मराठी: नन्दुरबार जिल्हा, आङ्ग्ल: Nandurbar District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नन्दुरबार इत्येतन्नगरम् | स्वातन्त्र्यसङ्ग्रामे हुतात्मा, प्रसिद्धः, निर्भयः, बालकानाम् आदर्शः शिरीष कुमार इत्यस्य जन्मस्थानमिदं नन्दुरबारमण्डलम् । महाराष्ट्रराज्ये वायव्यदिशि मण्डलमिदं विद्यते । 'खान्देश' इति महाराष्ट्रविभागे स्थितम् अन्यतमं मण्डलमिदम् ।
नन्दुरबारमण्डलम् Nandurbar District नन्दुरबार जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये नन्दुरबारमण्डलम् | |
देशः | India |
जिल्हा | नन्दुरबारमण्डलम् |
उपमण्डलानि | अक्कलकुवा, अक्राणी महाल (धाडगाव), तळोदा, नन्दुरबार, नवापुर, शहाडा, धण्डगाव |
विस्तारः | ५,०३५ च.कि.मी. |
जनसङ्ख्या(२०११) | १६,४८,२९५ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://nandurbar.nic.in |
भौगोलिकम्
सम्पादयतुनन्दुरबारमण्डलस्य विस्तारः ५,०३५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि मध्यप्रदेशराज्यं, पश्चिमदिशि गुजरातराज्यम्, उत्तरदिशि गुजरातराज्यं, मध्यप्रदेशराज्यं च, दक्षिणदिशि धुळेमण्डलम् अस्ति । अस्मिन् मण्डले ८५९ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् तापी-नर्मदे प्रमुखनद्यौ स्तः । मण्डलेऽस्मिन् २०.७८% भूमिः अरण्यव्यापृता ।
ऐतिहासिकं किञ्चित्
सम्पादयतुतृतीये शतके निर्मितेषु कान्हेरी-लयनेषु 'नन्दी गृह' इत्यनेन नाम्ना उल्लिखितमस्ति इदं मण्डलम् । एतेषां लयनानां स्थापना नन्द इति गोपराजेन कृता । पुरातनकाले सुन्दरनगरम् इति नन्दुरबार-नगरस्य ख्यातिः आसीत् । १३८२ तमे वर्षे इब्न बतूता अस्मिन् नगरे उषितवान् । १९६० तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना कृता तदा नन्दुरबारपरिसरः धुळेमण्डले समाविष्टः आसीत् । १९९९ तमे वर्षे प्रशासनसौकर्यार्थम् आदिवासी-बहुसङ्ख्यप्रदेशः नन्दुरबारपरिसरः विभिन्नमण्डलत्वेन स्थापितः सर्वकारेण ।
कृषिः उद्यमः च
सम्पादयतुआमहाराष्ट्रं यथा 'खरीप' (kharif), 'रब्बी' (rabi) इति द्विप्रकारका (वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । मण्डलेऽस्मिन् यवनालः(ज्वारी), गोधूमः, तण्डुलः, 'तूर', कलायः, मरीचिका, इक्षुः, कार्पासः, सीताफलं (custard apple), कदलीफलम् इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । मण्डलेऽस्मिन् कार्पासप्रक्रिया-उद्यमाः, खाद्यपदार्थप्रक्रिया-उद्यमाः च प्रचलन्ति । परम् एतेषां परिमाणं न्यूनमेव अस्ति । कृषिः एव प्रमुखोपजीविकासाधनम् ।
जनसङ्ख्या
सम्पादयतुनन्दुरबारमण्डलस्य जनसङ्ख्या(२०११) १६,४८,२९५ अस्ति । अस्मिन् ८,३३,१७० पुरुषाः, ८,१५,१२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २७७ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७८ अस्ति । अत्र साक्षरता ६४.३८% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
- अक्कलकुवा
- अक्राणी महाल (धाडगाव)
- तळोदा
- नन्दुरबार
- नवापुर
- शहाडा
- धण्डगाव
लोकजीवनम्
सम्पादयतुअक्कलकुवा, अक्राणी महाल (धाडगाव), नवापुर इत्येतेषु उपमण्डलेषु वनवासिजनाः निवसन्ति । तेषां विशिष्टा संस्कृतिः अत्र दृश्यते । 'देवमोगरा' देवी, 'वाघदेव', 'खण्डोबा', 'कान्होबा', 'बहिरोबा', 'महादेव' इत्येतानि तेषां देवतानामानि । 'भिल' इति आदिवासिजनाः मण्डलेऽस्मिन् बहुसङ्ख्याः सन्ति । ते पर्वतप्रदेशेषु निवसन्ति । तेषां वेशाभूषाऽपि विशिष्टा । पुरुषाः प्रोञ्छं धरन्ति, महिलाः शाटिकां धरन्ति । कुटुम्बेषु महिलानां स्थानं महत्त्वपूर्णं, महिलाः सम्पत्तौ भागमपि प्राप्नुवन्ति इति विशेषः । आदिवासिजनानां प्राचुर्यात् आदिवासी-मण्डलम् इत्यपि प्रसिद्धिः अस्य मण्डलस्य । परं बहिर्जगतः सम्पर्कवशात् आदिवासिजनानां प्रगतिः जायमाना वर्तते । प्रगत्या सत्परिणामः, दुष्परिणामः भवति वा इति तु कालान्तरे ज्ञायते ।
वीक्षणीयस्थलानि
सम्पादयतुअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -
- सातपुडा-पर्वतावल्यां स्थितं तोरणमाळ-गिरिधाम ।
- अक्राणी इत्यत्र स्थितम् अस्तम्भ
- शहाडा इत्यत्र स्थितम् उनपदेव
- शहाडा इत्यत्र स्थितं दक्षिण-काशी इति प्रसिद्धं प्रकाश
- सारङ्गखेडा इत्यत्र स्थितं दत्तमन्दिरम्
- यशवन्त ह्रदः/सरोवरः
- सीताखाई
- शिरीष कुमार स्मारकम्
- जुना किल्ला