धर्मसूत्रम्
धर्मसूत्रेषु धार्मिकनियमाः, प्रजानां राज्ञाश्च कर्त्तव्यचर्याः, चत्वारो वर्णाः, चत्वारः आश्रमाः, तेषां धर्माः पूर्णतया निरूपिताः । एतानि धर्मसूत्राण्येव स्मृतीनां जन्मनेऽकल्पन्त । धर्मसूत्रे चतुण्णां वर्णानाम् आश्रमाणाञ्च किञ्च राज्ञामपि कर्त्तव्यानि निर्दिष्टानि सन्ति । इमान्येव त्रीणि वस्तुतः प्रधानानि कल्पसूत्राणि मतानि ।
धर्मसूत्राणि कल्पस्य गौरवम् अयान्यङ्गानि सन्ति, परं न साम्प्रतं प्रत्येकशाखायाः धर्मसूत्राणि लभ्यन्ते । यन्मानवधर्मसूत्रमाधृत्य मनुस्मृतेः निर्माणं सञ्जातं, तदपि नाद्यपर्यन्तमुपलब्धं भवति । सुतरां बौधायनापस्तम्ब-हिरण्यकेशिकल्पसूत्राणामुपलब्धिः पूर्णतया भवति । अत एव तदीयानि धर्मसूत्राण्यपि प्राप्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्त्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, अाश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तम्, नित्यनैमित्तिकं कर्म इत्येते अन्ये चानेके विषयाः सन्ति वर्णिताः । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते ।
गौतमधर्मसूत्रं निर्दिशन्तो याज्ञवल्क्यकुमारिल-शङ्कराचार्य-मेधातिथयः प्राप्यन्ते । बोधायनोऽपि धर्मसूत्रस्य प्राचीनतमः अाचार्यो मतः । वसिष्ठश्च प्रतिष्ठितेषु धर्मसूत्रकारेषु गण्यते । तदीयं धर्मशास्त्रं यद्यपि लघुकायं परं गुणविपुलत्वेन महनीयमस्ति। वसिष्ठस्य जीवनदर्शनम् अत्यन्तमुदात्तमाध्यात्मिकमस्ति । सः सदाचारमयं जीवनं यापयितुमुपदिशति । उपदिशति च दुर्बुद्धिप्रियां तृष्णां परिहर्तुम् । वसिष्ठस्य श्लोकबद्धाः स्मृतिः प्रकाशङ्गताऽस्ति । बहवो मनुस्मृतिश्लोकास्तत्र गद्यात्मकेषु सूत्रेषु दृष्टिगोचराः भवन्ति ।
महाभारते भगवान् वेदव्यासः शङ्खलिखित-गौतमापस्तम्बादीनां धर्मसूत्रकाराणां नामानि सादरं संस्मरन् समवाप्यते । स कस्यचन धर्मकारस्य मतमुद्धरन् ब्रवीति ー
'अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति॥
यदाऽनृताः स्त्रियस्तात सहधर्मः कृतः स्मृतः॥'[१]
विस्तारः
सम्पादयतुधर्मसूत्रप्रतिपादिताः सर्वे धर्माः सूत्रकारैर्न स्वयं प्रकल्पिताः, अपि तु तैः प्राक्तनेभ्यः स्त्रोतोभ्यः सङ्गृह्य यथासमये व्याख्याताः । यथा चाह बौधायनः -
'उपदिष्टो धर्मः प्रतिवेदम, तस्यानुव्याख्यास्यामः ॥'
एतदेव मतमनुसरन् आपस्तम्बो बूते - 'अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः ।' इत्थं धर्मसूत्राणि प्राक्तनानामेव धर्माणां व्याख्यानरूपाणि सन्ति । सर्वे सूत्रकाराः स्मृतिकाराश्च वेदमेव धर्मस्यादिमं मूलं मन्यन्ते । परं ये धर्माः प्रत्यक्षरूपेण वेदेषु प्राप्यन्ते, तेषां मूलं वेदविदां स्मृतौ शीले च प्राप्यन्ते।
धर्मसूत्रे उद्धरणानि
सम्पादयतुब्रह्मचारिधर्मोद्धरणानि
सम्पादयतुधर्मसूत्रकारैः मन्त्रब्राह्मणात्मको वेदः प्रमाणत्वेन स्वीकृतः । तस्मादेव कारणाद् बहुधा तैः मन्त्रैः सह ब्राह्मणवाक्यान्यपि श्रुतिवचनत्वेन उद्ध्रियन्ते । शतपथब्राह्मणे ब्रह्मचारिणो ये धर्माः प्रोक्ताः सन्ति, तान् धर्मान् उद्धरन्तः अनुसरन्ताश्च अनेके सूत्रकाराः आसाद्यन्ते। आपस्तम्बप्रणीतधर्मसूत्रे उद्धृतेभ्यो ब्राह्मणवाक्येभ्यो विदितं सञ्जायते यद्, ब्रह्मचारिधर्मा न केवलं शतपथब्राह्मणे निरूपिताः, परं तेषां निरूपणन्तु तद्भिन्नेष्वपि ब्राह्मणेषु समुपलब्धं भवति । वर्तमानानेहसि न तानि ब्राह्मणानि समवाप्तानि सञ्जायन्ते । यथा च आपस्तम्बोदधृते एते ब्राह्मणवचसी न सम्प्रति कस्मिन्नपि ब्राह्मणे समवाप्येते -
‘यदि स्मयेतापि गृह्य स्मयेतेति ब्राह्मणम्।
रजस्वलो रक्तदन्सत्यवादी स्यादिति ब्राह्मणम्॥'
शतपथब्राह्मणस्य ब्रह्मचारिधर्मविषयकं वाक्यं बौधायनधर्मसूत्रे उद्धृतं सद्वीक्ष्यते । आपस्तम्बे च उपनयनविधानविषयके ये द्वे वाक्ये समुपलभ्येते, तेऽपि वस्तुतः कस्यापि ब्राह्मणान्तरस्यैव स्तः, न तद् ब्राह्मणमधिगतं भवति । ते वाक्ये एते -
‘सर्वेभ्यो वेदेभ्यः सावित्र्यनूच्यत इति ह ब्राह्मणम्॥'
‘तमसो वा एषतमः प्रविशति यम विद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मणम्।'
इत्थं ब्रह्मचारिधर्माः बहुभिः सूत्रकारैः उद्धृताः, ते च ब्राह्मणेषु सम्यक् प्रतिपादिताः।
स्नातकधर्मोद्धरणानि
सम्पादयतुस्नातकधर्मसम्बन्धीनि च श्रुतिवाक्यानि धर्मसूत्रेषु उद्धृतानि सन्ति । तथा हि शतपथब्राह्मणस्य समुपस्थापयन् वसिष्ठः प्राह -
‘भार्यया सह नाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके विज्ञायते।'[२]
अपरञ्च स्नातकधर्ममधिकृत्य वसिष्ठः काठकश्रुतिं संस्मारयन् तं धर्मं विवृणोति। स्नातकः सत्रादन्यत्र शिखां न वापयेदिति धर्मं व्याख्यातुमापस्तम्बः श्रुतिमुद्धरति -
‘अथाऽपि ब्राह्मणम्॥ रिक्तो वा एषोऽनपिहितो यन्मुण्डस्तस्यैतदपि धानं यच्छिखेति । सत्रे तु वचनाद् वपनं शिखायाः॥'
वर्णाश्रमस्य उद्धरणानि
सम्पादयतुब्राह्मणस्य कृते
सम्पादयतुवर्णाश्चत्वारः इत्येतदधिकृत्य ऋग्वेदोऽभिदधाति -
'ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः॥
ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत॥'
अत्र वर्णशब्दो न जातिवाचकत्वेन गृहीतः। वर्णस्य उल्लेखो न केवलं श्रुतावन्यत्राऽपि दृश्यते। काठकसंहितायां 'वर्ण' इत्येतत्पदं जात्यर्थे च प्रयुक्तम्।
'आार्यवर्णमुज्जापयति' । ब्राह्मणेषु च वर्णशब्दो वणार्थे एव प्रयुक्तः प्राप्यते।
शतपथब्राह्मणं हि वर्णान् एव वर्णयति -
‘चत्वारो वै वर्णाः ॥ ब्राह्मणो राजन्यो वैश्यः शूद्रः॥'
ऐतरेयब्राह्मणेऽपि ‘शूद्रो वर्णः’ इति प्रयोगोऽधिगम्यते । तैत्तिरीयब्राह्मणमेतस्मिन् विषये निगदति — 'देव्यो वै वर्णो ब्राह्मणः॥' ‘अार्यवर्णमुज्जापयन्ति ॥' इत्येषः प्रयोगः पञ्चविंशब्राह्मणे विलोक्यते । एवंविधानि वेदवाक्यानि अालम्ब्य धर्मसूत्रकाराः वर्णधर्मान् व्याचक्षाणाः अासाद्यन्ते ।
वसिष्ठः साक्षादेव वर्णविषयकं मन्त्रमुद्धरन् दृश्यते -
'प्रकृतिविशिष्टं चातुर्वण्यं संस्कारविशेषाञ्च॥ ब्राह्मणोऽस्य मुखमासीद् बाहूराजन्यः कृतः ॥ ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रोऽजायत' - इत्यपि निगमो भवति'।[३] अन्ये सूत्रकारा: शतपथब्राह्मणमनुसृत्य वर्णान् परिगणयन्ति । यथा धर्मसूत्रेषु वर्णानां कर्मणां वर्णनं विधीयते, तथा श्रुतौ एषां कर्मणां स्पष्टं विधानं न दृश्यते। परं चतुर्णां वर्णानां कर्मणां पृथक्त्वं वेदे अनेकविधतया वीक्षितं भवति । केषुचित् कर्मसु वर्णविषयस्य एव अधिकारो दृश्यते । यथा च ब्राह्मणवर्णस्य याजनाधिकारं प्रतिपादयच्छतपथब्राह्मणं ब्रवीति -
'य उ वैकश्च यजते ब्राह्मणीभूयैव यजते।'
ब्राह्मणानां याजनाधिकारो मैत्रायणीसंहितायामेवं वर्णितः -
‘द्वया वै देवा अहुतादो यद् ब्राह्मणाः॥'
ब्राह्मणेष्वपि ईदृशं वचनं विलोक्यते -
'एता वै प्रजा हुतादो यद् ब्राह्मणाः' (ऐतरेयब्राह्मणम् )॥
'एते वै देवाः अहुतादो यद् ब्राह्मणाः' ( गो० ब्राह्मणम् )॥
दानप्रतिग्रहे सोमपाने च ब्राह्मणानामधिकारं विदधानम् ऐतरेयब्राह्मणमाचष्टे -
'स यदि सोमं ब्राह्मणानां स भक्षो ब्राह्मणानांस्तेन भक्षेण जिन्विष्यसि ब्राह्मणकल्पस्ते प्रजाया मा जनिष्यत आदाय्यापाय्यावसायी यथा काम प्रयाप्यो यदा वै क्षत्रियाय पापं भवति ब्राह्मणकल्पोऽस्य प्रजायामजायत ईश्वरो ह्यस्माद् द्वितीयो वा तृतीयो वा ब्राह्मणतामभ्युपैतोः स ब्रह्मबन्धवेन जिज्यूषितः॥'
ऋत्विक्त्वेन ब्राह्मणवर्ण एव श्रुतौ प्रतिपादितः । तं विहाय न वर्णान्तरं हि ऋत्विक्तां परिग्रहीतुं प्रभवति । ब्राह्मणस्य अधिकाराः कर्त्तव्यानि च शतपथेन विधीयन्त एवम् -
'प्रज्ञा वर्धमाना चतुरो धर्मान् ब्राह्मणमभिनिष्पादयति - ब्राह्मण्यं प्रतिरूपचर्यां यशो लोकपत्तिम्, लोकः पच्यमानः चतुर्भिर्धर्मैर्ब्राह्मणो भुनक्ति - सर्वथा च दानेन चाज्येयतया चावध्यतया च ॥'
शतपथब्राह्मणस्यापरं वचनमपि बोधयति यत्, तस्मिन् काले अध्यापने ब्राह्मणस्यैवाधिकारः आसीत् -
'स होवाचाजातशत्रुः प्रतिलोमं वै तद्यद् ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्ममेव वक्ष्यतीति।'
ईदृशानि वेदवचनानि आलम्भ्य ब्रा्मधर्मान्नेवं व्याचक्षते -
'द्विजातीनामध्ययनमिज्यादानम्। ब्राह्मणस्याधिकाराः प्रवचन-याजन-प्रतिग्रहाः'[४]
'ब्रह्म वै त्वं महिमानं ब्राह्मणेष्वदधादध्ययनाध्यापनयजनयाजनदानप्रतिग्रहांयुक्तं वेदानां गुप्त्यै'[५]
‘स्वकर्मब्राह्मणस्याध्ययनमध्यापनं यज्ञो यजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छ:'।[६] 'षट्कर्माणि ब्राह्मणस्य स्वाध्यायाध्ययनमध्यापनं यज्ञो यजनं दानं प्रतिग्रहश्चेति।'[७]
श्रुतिविधानमनुसृत्यैव धर्मसूत्रकारैः ब्राह्मणस्यावध्यत्वमाम्नातम् -
‘अवध्यो वै ब्राह्मणः सर्वापराधेषु'॥
गौतमः प्राह — 'अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिहार्यश्चेति।'
मनुः प्राह - 'न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम्॥'
यद्यपि कतिपयेषु यज्ञेषु ब्राह्मणस्य विशेषाधिकारः श्रुतिभिः विधीयते परं प्रायेण सर्वेषां द्विजानां ब्राह्मणक्षत्रियवैश्यानाम् - अध्ययने यज्ञे च समानोऽधिकारः प्रतिपादितः । द्विजेषु 'आर्य' इति शब्दोऽपि श्रुतिषु प्रयुक्तः । सूत्रकारा अपि तत्कृते 'आर्य' इति शब्दं प्रयुञ्जाना दृश्यन्ते। ते इज्यायां दाने अध्ययने च तेषामधिकारं स्वीकुर्वन्ति।
क्षत्रियाणां कृते
सम्पादयतुक्षत्रियस्य मुख्यो धर्मः प्रजानां पालनमेव प्रोच्यते धर्मविद्भिः ।
वसिष्ठः प्रब्रवीति— 'शस्त्रेण च प्रजापालनं स्वधर्मस्तेन जीवेत् ॥'
गौतमश्चाभिदधाति - 'राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ॥'
क्षत्रियधर्ममधिकृत्य ऐतरेयब्राह्मणं यद् वदति तदिदम् – 'क्षत्रियोऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ताऽजन्यमित्राणां हन्ताऽजनि ब्राह्मणानां गोप्ताऽजनीति ॥'
शतपथब्राह्मणमपि क्षत्रियस्य प्रमुखो धर्मः कः ? इत्यत्र निगदति—
'एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेकः।
सन् बहूनामीष्टे यद्वेदेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यः।।'
शतपथब्राह्मणोक्तमिदं मतं काठकश्रुतिमनुमन्यते - 'राजन्यो वै प्रजानामधिपतिः'
राजसम्मानमुद्दिश्य गौतम आचष्टे -
'तमुपर्यासीनमधस्ताहुपासीन्नन्ये ब्राह्मणेभ्यः तेऽप्येनं मन्येरन्'।
इदं हि सर्वं श्रुतिमाधृत्यैव प्रोक्तम् -
'तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते'।
वैश्यानां कृते
सम्पादयतुपशवो वैश्यस्य धनत्वेन श्रुतौ मतम्। अस्मिन् विषये पञ्चविंशब्राह्मणं कथयति
(क) ‘एतद् वै वैश्यस्य समृद्धं यत् पशवः।'
(ख) तस्मादु बहुपशुर्वैश्वदेवो हि जागतो वर्षा ह्यस्य वैश्यस्य ऋतुस्तस्माद् ब्राह्मणस्य च राजन्यस्य चाद्योघरो हि सृष्टः ॥'
पशुशब्दोऽत्र कृषेरप्युपलक्षणमस्ति । अत एव सूत्रकाराः पशुपालनं कृषिश्च वैश्यस्य प्रधानो धर्म इति कथयन्ति । तस्मादेव सम्बन्धाद् वाणिज्यमपि वैश्यस्य धर्मत्वेन स्वीकृतम् ।
शूद्राणां कृते
सम्पादयतुऋग्वेदे शूद्र इति पदं सकृत्प्रयुक्तम् । न तत्र शूद्रस्य धर्ममुद्दिश्य किमपि प्रोक्तम् । तस्य जन्म पद्भयां जातमित्येव निगदितम् । ऋग्वेदाद् व्यतिरिच्य अन्येषु वेदेषु ब्राह्मणेषु च शूद्रशब्दस्य प्रयोगोऽसकृत्कृतः । तेषु तस्य कर्म किमित्येतदपि निरूपितम् । पञ्चविंशब्राह्मणे कथितं यत् पादप्रक्षालनं शूद्रस्य कर्म विद्यते, यज्ञे च तस्याधिकारो नास्ति -
'स यत्तस्य एष प्रतिष्ठाया एकविंशमसृज्यतं । तमनुष्टुप्छन्दोऽन्वसृज्यत न कश्चन देवता शूद्रो मनुष्यस्तमाच्छूद्रे उत बहु पशुरयज्ञियो विदेवो हि, न हि तं काचन देवताऽन्वसृज्यत, तस्मात्पादावनेजयन्नातिवर्द्धते पत्तो हि सृष्टः॥'
यदुपरिष्टे पञ्चविंशब्राह्मणे प्रोक्तं तदनु मन्यमानम् ऐतरेयब्राह्मणमपि दृष्टं भवति -
'अथ यद्यपः शूद्राणां स भक्षः शूद्रांस्तेन भक्षेण जिन्विष्यसि शूद्रकल्पस्ते प्रजायमाजनिष्यतेऽन्यस्य प्रेष्यः कामोत्थाप्यो यथा कामवध्यः ॥'
इमानि वचनान्यवलम्ब्य धर्मसूत्राणि च सेवामेव शूद्रस्य प्रधानं धर्म मन्यन्ते । तथाहि —
'शुद्रेषु पूर्वेषां परिचर्या'।[८]
'परिचर्या चोत्तरेषाम्।[९]
ब्रह्मचारिणां धर्माणां विषये शतपथब्राह्मणे विशदतयाऽऽम्नातम् । उद्वाहविषये च तत्र प्रचुरं प्रोक्तम् । ऋग्वेदस्य दशममण्डलस्थं पञ्चाशीतितमं सूक्तम् -
'रैभ्यासीदनुदेयी नाराशंसी न्योचनी । सूर्याया भद्रभिद् चासोगाथयैति परिष्कृतम्....'
विवाहसम्बद्धानि
सम्पादयतुअथर्ववेदे च विवाहविषयः प्रतिपादितः । गृह्यसूत्राणां विवाहवर्णने एतेषां मन्त्राणां विनियोगः क्रियते । उद्वाहसम्बन्धिनो वेदमन्त्रा एव अाचार्येर्गृहस्थाश्रमविषये प्रमाणत्वेन गृहीताः सन्ति ।
श्रुतिषु ऋणत्रयविधानं यत्कृतं तद्ब्रह्मचर्यं गार्हस्थ्यञ्च लक्ष्यीकृत्य कृतमिति सूत्रकाराणां स्मृतिकाराणाञ्च मतमस्ति । ब्रूते चात्र बौधायनः —
'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवान् जायते ब्रह्मचर्योण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति॥'
एवम् ऋणसंयोगादीन्यसंख्येयानि भवन्ति । श्रुतिवचांस्याश्रित्यैव धर्मसूत्रकारैर्गार्हस्थ्यं प्रतिपादितं, तद्धर्माश्र्च निरूपिताः। तैत्तिरीयसंहितायां हि ऋतुमतीधर्मा ये विहितास्ते च सूत्रकारैः स्वसूत्रग्रन्थेषु व्याख्यतः।
वानप्रस्थस्य संन्यासस्य च वर्णनं धर्मसूत्रेषु प्राप्यते । परं केचन सूत्रकाराः तत्र विप्रतिपत्तिमुपस्थापयन्तोऽपि दृश्यन्ते। केचन आचार्या नैष्ठिकं ब्रह्मचर्यं, वानप्रस्थं संन्यासञ्च नानुमन्यन्ते। बौधायनोऽत आह -
‘ऐकाश्रम्यं त्वाचार्या अप्रजनत्वादितरेषाम्। प्राह्लादिर्ह वै कपिलो नामासुर आस । स एतान् भेदांश्चकार देवैस्सह स्पर्धमानस्तान् मनीषी माऽद्रियेत ॥'
केचन आचार्या एतदपि अाश्रमद्वयमनुमन्यमानाः प्राप्यन्ते । तैत्तिरीयसंहितायामिह विषये ‘ये चत्वारः' इति वचोऽवाप्यते यत्तद्धर्मस्य चतुविधत्वं करोतीति तेषां मतम् । परं मतमिदं प्रतिवदन् बौधायन आाचष्टे यत् - ‘ये चत्वारः' इत्येष कर्मवाद एवास्ति — ऐष्टिकपाशुकसौमिकदार्वीहोमाणाम् । ज्ञानमेव मुक्तेः कारणमिति मत्वा केचन अाचार्याः संन्यासं परिपुष्णन्ति, किञ्च ज्ञानप्रशंसात्मिकानि श्रुतिवचनानि प्रमाणत्वेन प्रस्तुवन्ति । शतपथब्राह्मणस्य अधःस्थितं वचनं संन्यासपरिपोषकाणां मतं द्रढयति -
'तमेवं वेदानुवचनेन विविदिषन्ति। ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमीप्सन्तः प्रव्रजन्ति॥ एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजान्न कामयन्ते किम्प्रजया करिष्यामो येषान्नोऽयमात्मा यल्लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थापयाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः॥'
अापस्तम्बधर्मसूत्रन्तु पक्षद्वयमप्युपन्यस्यति । यद्यपि श्रुतिकाराः स्मृतिकाराश्च कालधर्ममवेक्षमाणाः संन्यासं न सर्वथा प्रत्याचक्षते संन्यासधर्माश्चापि प्रतिपादयन्ति तथापि ते वेदविरुद्धतां न कदाऽपि सहन्ते । तेषां वेदाज्ञा सर्वथा माननीयाऽस्ति । तेभ्यः परं न किमप्यस्ति तेषां दृष्टौ । अत एव आपस्तम्बधर्मसूत्रे प्रोक्तम् -
'त्रैविधवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते व्रीहियवपश्वान्यपयः कपालपत्नीसम्बन्धान्युच्चैर्नीचैः कार्यमिति ते विरुद्ध अाचारोऽप्रमाणमिति मन्यन्ते।'
एवमेव वसिष्ठो ब्रवीति -
'संन्यसेत् सर्वकर्माणि वेदमेकं न संन्यसेत्॥
तेषां संन्यसनाच्छूद्रस्तस्माद् वेदं न संन्यसेत् ॥'
तामेव प्रव्रज्यां, वस्तुतः धर्मसूत्राण्यनुमन्यन्ते या वैदिकधर्ममर्यादासंरक्षिणी भवति । तैत्तिरीयसंहितोक्तं - ‘मनुपुत्रेभ्यो दायं व्यभजत्' इति क्व उद्धरन्तो धर्मसूत्रकारा दायस्य वेदसमतत्त्वमुपपादयन्तीति। सूत्रव्याख्यातृृणां कथनमिदं यत्पिता पुत्रेभ्य एव दायं विभजेन्न तु दुहितृभ्यः। बौधायनधर्मसूत्रदर्शनात् पुत्रस्यैव दायभागाधिकारिता सिद्ध्यति । बौधायनः स्पष्टमेव आानमति यत्, पितरि जीवति पितुरनुज्ञयैव दाय-विभजनं भवेत् । केषाञ्चन आचार्याणामिदमपि मतं यज्ज्येष्ठः पुत्रोऽधिकस्य दायभागस्याधिकारी अस्ति । एते अाचार्याः स्वं मतं परिपोषयितुं बौधायनं प्रमाणत्वेनाऽपि उपन्यस्यन्ति । केषाञ्चन आचार्याणामिदमपि मतं यज्ज्येष्ठपुत्रः समस्तमपि दायभागं लभेत । परमापस्तम्बो मतमिदं प्रत्याचष्टे । स इह आह यदेतादृशो विभागो न शास्त्रानुकूलः। सर्वेऽपि पुत्राः समदायसंलब्ध्यधिकारिणः सन्ति । श्रुतिः समदायविभागपक्ष एव वर्त्तते । समदायविभागस्य वेदमूलत्वं प्रमाणयितुमापस्तम्बस्तदेव श्रुतिकथनमुद्धरति, यद्बौधायनेन प्रयोजनान्तरमुदाहृतम् । बौधायनोदाहृतस्य, श्रुतिवचनस्य विधित्वमस्वीकुर्वाणः आपस्तम्बो न्यायविदां मतमुपस्थापयति - 'अथापि नित्यानुवादमविधिमाहुन्यायविदः'॥ एतस्य हि व्याख्यानस्य उद्देश्यमिदं यदेवंविधानि वेदवाक्यानि दृष्टार्थमात्रमनुवदन्ति । एतेन विवेचनेनेदमपि स्फुटीभवति यद्धर्मसूत्रकाराः श्रुतिवाक्यानि व्याख्याय धर्म प्रतिपादयन्ति । धर्मसूत्राणां सर्वेषां चेत् सम्यगध्ययनं विधीयेत, तदेवं निश्चीयते यच्छ्रुतिव्याख्याभेदादेव दायविभागपरो भेदः सञ्जातः । ‘दुहिता वा' इत्येतद् आपस्तम्बीयं वचो निशम्य विदितं जायते यद्, दुहिताऽपि विकल्पेन दायं लभते। गौतममते पत्नी सपिण्डादिभिः सह रिक्थं भजते ।
केषाञ्चन धर्माणां मूलन्तु सूत्रकाराः स्मृतिकाराश्च वेदविदां स्मृतिं शीलञ्च मन्यन्ते । यदा कोऽप्येतादृशस्य शीलस्य एतादृश्याः स्मृतेर्या प्रमाणत्वम् आक्षिपति, तदा धर्मविदस्तत् समादधानं ब्रुवन्ति यद्, याभ्यः शाखाभ्यो वेदविदां स्मृतिः शीलं वा प्रावर्तत, ताः शाखास्तदा प्रावर्तन्त परं ता गच्छता कालेन व्यनश्यन् । गोविन्दस्वामी वक्ति च यद्, बौधायनेन प्रोक्त: शिष्टागमः सम्प्रति प्रलीनशाखामूलो वर्तते ।
धर्मविभागाः
सम्पादयतुधर्मसूत्रग्रन्थालोचनेन, विदितं सञ्जायते यद्, धर्मसूत्रकाराणाम् अभिमतमिदं यत्, कस्मिन्नपि विषये ‘धर्मोऽयम्' इत्येतत्कथनं न तावत् सम्भवं यावच्छ्रुतिः नानुसन्धीयते । धर्मसूत्रकारास्तत् सर्वमपि प्रतिवदन्ति यदस्ति श्रुतिविरुद्धम् । धर्मविदो धर्मं चतुर्षु भागेषु विभजन्ते —
(१) साधारणधर्मः
सम्पादयतुसाधारणधर्मो दान-तपो-यज्ञ-भेदेन त्रिविधः स्मृतः। अर्थदान-ब्रह्मदानअभयदान-भेदेन दानमपि तत्र त्रिविधम्। तपोऽपि शरीरतपो, मानसतपो वाक्तपो भेदेन त्रिधाऽस्ति । यज्ञस्य सन्ति अष्टादश भेदाः। तत्र नित्य-नैमित्तिक-काम्य-आध्यात्म-आधिदैव-आधिभूतभेदैः कर्मयज्ञः षड्वधः प्रोक्तः । उपासनायज्ञश्च नवविध उक्तः
(१) निर्गुणोपासना, (२) सगुणोपासना, (३) अवतारोपासना, (४) ऋषिपितृदेवतोपासना, (५) भूतप्रेतासुराद्युपासना, (६) मन्त्रयोगः, (७) हठयोगः, ( ८ ) लययोगः, (९) राजयोगश्च।
श्रवण-मनन-निदिध्यासनभेदेन ज्ञानयज्ञस्त्रिप्रकारकः प्रतिपादितः।
इत्थं हि अष्टादशविधा यज्ञाः भवन्ति । दानतपोयज्ञानां संख्यायाः सङ्कलनेन चतुर्विंशतिभेदाः सञ्जायन्ते । एषां हि संख्या सात्त्विकत्वादिगुणत्रयत्वात् त्रिगुणीकरणेन द्विसप्ततित्वं याति ।
(२) विशेषधर्मः
सम्पादयतुविशेषधर्मो भवति अधिकारिविशेषाणां कृते । तथा हि पुरुषस्य कृते पुरुषधर्मो नार्याः कृते नारीधर्मः । गार्हस्थस्य कृते प्रवृत्तिधर्मः । संन्यासिनां कृते निवृत्तिधर्मः । एवमेव ब्राह्मण-क्षत्रिय-वैश्यादीनां कृते पृथक् पृथग् धर्मो य उक्तः सो विशेषधर्म इत्युच्यते ।
(३) असाधारणधर्मः
सम्पादयतुअसाधारणधर्मस्य विलक्षणताऽन्यैवास्ति । असाधारणधर्मार्थं विशेषयोगशक्तिरात्मबलश्चापेक्ष्यते । न साधारणा मनुष्यास्तदधिकारिणो भवितुमर्हन्ति । विश्वामित्र-द्रौपदी-प्रभृतयो हि विरला जनास्तदधिकारिणः पुरा अजनिषत ।
(४) आपद्धर्मः
सम्पादयतुआपद्धर्मस्यापि चमत्कारोऽन्य एव । स धर्मो भावप्रधानः । विपदि निपत्य धर्मस्य लक्षणं मनुः एवञ्चचकार -
'धृतिक्षमादमोऽस्तेयं शौचमिन्द्रियनिग्रहः॥
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥'
यद्यपि धर्मजिज्ञास्यमानानां प्रमाणं परमं श्रुतिस्तथापि मनुः एवमप्याह -
'वेदः स्मृतिः सदाचारः स्वस्य च प्रियं आत्मनः।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्।।'[१०]
श्रुतिमूलो हि धर्मो न कश्चिद्द्वेष्टि । अत एव धर्माचार्याः प्राहुः -
'श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्॥
अात्मनः प्रतिकूलानि परेषां न समाचरेत्॥'
धर्मस्योपादेयत्वं महनीयत्वञ्चेत्थं गीतं धर्मज्ञैः -
'धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति।
धर्मेण पापमपनुदति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति।।'
व्यासो धर्मस्याहेयत्वे प्राह -
'न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः।
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः॥'
धर्मस्य निषेवणीयत्वं कियदुपकारकृदित्यत्र व्यास एवमभिदधाति —
'ऊर्ध्वबाहुविरौम्येष न कोऽपीहि शृणोति माम्।
धर्मादर्थञ्च कामश्च तं धर्म किल सेवसे।'
धर्मं संरक्ष्य न कोऽपि कदाऽप्यवसीदति, तस्मादेव कारणाद् वेदम् अनूच्य अाचार्योऽन्तेवासिनमनुशास्ति –
‘धर्म चर, धर्मान्न प्रमदितव्यम्।'
धर्मसूत्राणि
सम्पादयतुगौतमधर्मसूत्रम्
सम्पादयतुधर्मसूत्रेषु प्राचीनतमोऽयं ग्रन्थोऽस्ति । अस्योल्लेखो गोभिलेन स्वकीये गृह्यसूत्रे कृतोऽस्ति । बौधायनधर्मसूत्रे अस्माद्धर्मसूत्रात् प्रायश्चित्तविषयकं विचारमपि सङ्कलितम् । ग्रन्थेऽस्मिन् २८ अध्यायाः सन्ति । अत्र वर्णधर्म-राजधर्म-नित्यकर्मप्रायश्चित्तादीनां विशिष्टं प्रतिपादनमस्ति । शङ्कराचार्य-कुमारिल-मेधातिथिप्रभृतयो विद्वांसः अस्य ग्रन्थस्य निर्देशं कृतवन्तः । अस्य आविर्भावकालः ६०० वि० पूर्वत: ४०० वि० पर्यन्तं मन्यते। हरदत्तेन स्वव्याख्यया सूत्रमिदं सरलं कृतम्। आचार्य-मस्करी-महोदयस्त्वस्य ग्रन्थस्य बोधगम्यं भाष्यं लिलेख।
बौधायनधर्मसूत्रम्
सम्पादयतुबौधायनकल्पसूत्रस्यांशमात्रम् एवायं ग्रन्थोऽस्ति । अस्य धर्मसूत्रस्य चत्वारः प्रश्नाः सन्ति । प्रथमप्रश्ने ब्रह्मचर्य-शुद्धाशुद्धविचार-राजकीयविधि-अष्टविधविवाहादीनां विषयाणां वर्णनमस्ति। द्वितीयप्रश्ने-प्रायश्चित्त-उत्तराधिकार-अाश्रमव्यवस्था-गार्हस्थ्यधर्म-श्राद्धादीनां विषयाणां विवरणमस्ति । तृतीयप्रश्ने संन्यासधर्म-चान्द्रायणप्रभृतीनां व्रतानां वर्णनं प्राप्यते। चतुर्थप्रश्ने काम्यसिद्ध्यादीनां वर्णनमस्ति ।तैत्तिरीयशाखायाः बौधायनकल्पसूत्रं कल्पसाहित्यस्य इतिहासेषु प्राचीनतममस्ति। तैतिरीयसंहितायाः टीकाकृता भास्करमिश्रेण स्वीयां टीकायामस्य बौधायनस्य नाम्नोल्लेखः कृतोऽस्ति।
'प्रणम्य शिरसाऽऽचार्यान् बौधायनपुरःसरान्।
व्याख्यैषाऽध्वर्युवेदस्य यथाबुद्धि विधीयते।।'
डॉ० व्यूलर-मतेनायं विद्वान् दक्षिणभारतीयः आसीत्। किञ्च केचन तम् उत्तरभारतीयत्वेन अपि अङ्गीकुर्वन्ति। अस्य मतानुसारेण आर्यावर्त्तस्य सीमानिर्देशो द्रष्टव्यः -
'प्राग्दर्शनात् प्रत्यक्कालिकवनाद् दक्षिणेन हिमवन्तमुदक् पारियात्रमेतावद् अार्यावर्त्तम्। तस्मिन् य आाचारः प्रमाणम्॥'[११]
हिरण्यकेशीगृह्यसूत्रेऽपि सीमन्तोन्नयनप्रसङ्गे गङ्गायारुल्लेखः इति तर्कः -
'सोम एव नो राजेत्याहुः ब्राह्मणीः प्रजाः॥
विवृतचक्रा अासीनास्तीरे तुभ्यं गङ्गे॥'[१२]
आपस्तम्बधर्मसूत्रम्
सम्पादयतुकल्पसूत्रमिदम् आपस्तम्बकल्पसूत्रनाम्ना अपि ख्यातमस्ति। डा० ब्यूलर-महोदयमतानुसारेण आपस्तम्बोऽयं दाक्षिणात्य आसीत् । कथनमिदं प्रमाणयितुमनेन धर्मसूत्रस्य अन्तरङ्गप्रमाणम् उद्धृतम् – 'उदीच्यवृत्तिश्चेदासनगतेषूदपात्रानयनम्'।[१३] किञ्च अन्ये तस्य समर्थनं न कुर्वन्ति। अापस्तम्बगृह्यसूत्रे वीणावादनकाले मन्त्रद्वयस्य गानस्य विधानमस्ति -
'योगन्धरिरेवं नो राजेति साल्वीरवादिषुः।
विवृतचक्रा आसीनास्तीरेण यमुने तव॥
सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः।
विवृतचका आसीनास्तीरेणासौ तव॥'
अस्य प्रथमे मन्त्रे यमुनातटवासिनां साल्वदेशीयप्रजानामुल्लेखः ऐतिहासिकमहत्त्वं रक्षति इथि तर्कः। आधुनिक-पञ्जाब-प्रदेशे एव तदा साल्वदेशः आसीत्। पाणिनिः साल्वदेशस्योल्लेखं राजशासितजनपदस्वरूपे एव कृतवानस्ति । 'साल्वावयव-प्रत्यग्रथकलकूटाश्मकादिञ्’।[१४] कतिपयानाम् एतादृशानाम् अवयवानामुल्लेखो नामोल्लेखपूर्वकं काशिकायां कृतवान् -
'उदुम्बरास्तिलखला भद्रकारा युगन्धराः।
भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः॥'
एभिः प्रमाणैः आपस्तम्बस्य जन्मस्थानमुत्तरभारतम् अनुमीयते।
हिरण्यकेशीधर्मसूत्रम्
सम्पादयतुअस्याः शाखायाः कल्पसूत्रस्य द्वावेव प्रश्नौ स्तः । ग्रन्थोऽयं स्वतन्त्र इत्यपि वक्तुं नोचितमस्ति । ग्रन्थोऽयम् आपस्तम्बधर्मसूत्रस्यैव संक्षिप्तं प्रवचनमस्ति । अयं हि विद्वान् आपस्तम्बधर्मसूत्रादेव शताधिकमन्त्राणामवतरणं स्वग्रन्थे कृतवान् । अस्य सूत्राणां पाठः पाणिनिकृते विशेषोऽनुकूलोऽस्ति । अस्य टीकाकारो महादेवः स्वभाष्ये अनेकावश्यकविषयाणां वर्णनमकरोत् । तेन हि भाष्यमिदमत्युपादेयं सङ्ग्राह्यश्चाभवदिति ।
वसिष्ठधर्मसूत्रम्
सम्पादयतुधर्मसूत्रकारेषु महर्षिवसिष्ठस्य स्थानमत्युच्चं प्रतिष्ठितञ्चास्ति । आकारेण स्वल्पकायः सन्नपि गुणे विपुलकायोऽस्ति ग्रन्थोऽयम् । ग्रन्थेऽस्मिन् त्रिंशदध्यायाः सन्ति । ग्रन्थेऽस्मिन् स्त्रीधर्म-श्राद्ध-अशौच-विष्णुमूर्त्तिप्रतिष्ठा-विष्णुपूजनादीनां विषयाणां विशिष्टं वर्णनमस्ति ।
वैखानसधर्मसूत्रम्
सम्पादयतुअस्मिन् धर्मसूत्रे वैखानसस्मृतिसूत्रस्य अष्टम-नवम-दशमप्रश्नाः सन्ति । त्रयः प्रश्नाः मिलित्वैवेमं ग्रन्थं निष्पन्नं कुर्वन्ति । अाश्रमाणां वर्णानाञ्च विशदं विवेचनमेवास्य ग्रन्थस्य महती विशिष्टताऽस्ति । वानप्रस्थ-संन्यास-गृहस्थाद्याश्रमाणाम् अवान्तरप्रकारकस्य एतादृशं विशदं वर्णनम् अत्रोपलब्धं भवति यद्, अन्यत्र धर्मशास्त्रान्तरे दुर्लभमस्ति । सङ्करजातीनामप्यत्र विशिष्टप्रकारकं वर्णनम् उपलब्धं भवति, किञ्च राज्ञः कर्त्तव्यं, न्यायस्य विधानं, श्राद्धस्यानुष्ठानञ्चादीनां धर्मशास्त्रेषु नियमतः प्राप्तविषयाणामत्र वर्णनस्य सर्वथाऽभावोऽस्ति । अस्याङ्ग्लानुवादः सम्पादनञ्च डाँ० कैलेण्डेन कृतम् ।
विष्णुधर्मसूत्रम्
सम्पादयतुइदमेवैकं धर्मसूत्रमस्ति यत् कस्यापि मानवग्रन्थकारस्य रचना न भूत्वा व्योत्पत्तौ श्रद्धां सन्दधाति । अस्मिन् गद्यात्मकसूत्राणां तथा पद्यानामेकत्र सन्निवेशोऽस्ति । अस्य स्वरूपस्य विषये पर्याप्तमतभेदोऽस्ति । मनुस्मृत्या सहास्य सूत्रस्य सम्बन्धः तथा पौर्वापर्यविप्रतिपत्तेविषयश्चास्ति । अस्य धर्मसूत्रस्य १६० श्लोकाः मनुस्मृतौ अक्षरशो लभन्ते। विष्णुधर्मसूत्रगताः श्लोकाः मनुस्मृतेः श्लोकानां छायामनुहरन्ति। एतादृश्या तुलनया धर्मसूत्रमिदं मनुपूर्ववर्तिनं मन्यन्ते । परमियतैव सादृश्येन परवर्त्तिता नियमस्यैव पूर्ववर्त्तिता नियमस्यापि कत्तुं शक्यत्वेन निश्चयस्य कस्यापि कर्त्तुमशक्यत्वात् । एतेषां धर्मसूत्राणामतिरिक्तं शङ्खलिखितस्य धर्मसूत्रमप्युपलब्धमस्ति । विष्णुधर्मसूत्रस्य आङ्ग्लानुवादेन सहास्य सम्पादनं प्रकाशनञ्च कोलकाता-नगरीतः १८८० ईश्वीये जाली-महोदयेन कृतम् ।