तं विद्याद्दुःखसंयोग...

भगवद्गीतायाः श्लोकः ९.२३
 
गीतोपदेशः
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः

सम्पादयतु

तं विद्यात् दुःखसंयोगवियोगं योगसंज्ञितम् सः निश्चयेन योक्तव्यः योगः अनिर्विण्णचेतसा ॥

तं दुःखसंयोगवियोगं योगसंज्ञितं विद्यात् । सः योगः अनिर्विण्णचेतसा निश्चयेन योक्तव्यः ।

शब्दार्थः

सम्पादयतु
तम् = तम् आनन्दम्
दुःखसंयोगवियोगम् = दुःखसम्बन्धरहितम्
योगसंज्ञितम् = योगनामकम्
विद्यात् = जानीयात्
सः = तादृशः
योगः = समाधिः
अनिर्विण्णचेतसा = समुत्सुकमनसा पुरुषेण
निश्चयेन = अवश्यम्
योक्तव्यः = प्राप्तव्यः ।

एवं यस्मिन् अवस्थाविशेषे वैषयिकस्य सुखस्य दुःखस्य च स्पर्श एव न भवति तम् अवस्थाविशेषम् योगः इति जानीयात् । तं च योगं समुत्सुकः अवश्यं प्राप्नुयात् ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wiki.x.io/w/index.php?title=तं_विद्याद्दुःखसंयोग...&oldid=488795" इत्यस्माद् प्रतिप्राप्तम्