जळगावमण्डलम्
जळगावमण्डलं(मराठी: जळगाव जिल्हा, आङ्ग्ल: Jalgaon District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं जळगाव इत्येतन्नगरम् । जळगावमण्डलं कदलीफल-उपस्कर (spices)-उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्वनाम । महाराष्ट्र्रराज्यस्य साहित्यक्षेत्रे श्रुतनामिकायाः कवयित्री बहिणाबाई इत्येतस्याः जन्मस्थानमिदम् ।
जळगावमण्डलम् Jalgaon District जळगाव जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये जळगावमण्डलम् | |
देशः | India |
जिल्हा | जळगावमण्डलम् |
उपमण्डलानि | चाळीसगाव, भडगाव, पाचोरा, जामनेर, पारोळा, एरण्डोल, धरणगाव, जळगाव, भुसावळ, मुक्ताईनगर, अमळनेर, चोपडा, यावल, रावेर, बोदवड |
विस्तारः | ११,७०० च.कि.मी. |
जनसङ्ख्या(२०११) | ३,६७९,९३६ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://jalgaon.nic.in |
भौगोलिकम्
सम्पादयतुजळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि बुलढाणामण्डलं, पश्चिमदिशि धुळेमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि जालनामण्डलम् अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रवहन्ती मुख्यनदी तापी ।
ऐतिहासिकं किञ्चित्
सम्पादयतुपुरा मण्डलेऽस्मिन् मौर्य-सातवाहन-कुषाण-वाकाटक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले मोघल-मराठा-आङ्ग्लशासकानाम् आधिपत्यमासीत् । स्वातन्त्र्यान्दोलने चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्यः उपमण्डलेभ्यः जनानां सहभागः महत्त्वपूर्णः आसीत् । धनाजी चौधरी इत्यनेन रक्षकाधिकारिपदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भागः गृहीतः । 'फैजपुर काङ्ग्रेस' नामकम् ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नैः अत्रैव सञ्चालितम् ।
कृषिः उद्यमाश्च
सम्पादयतुयवनालः(ज्वारी), बाजरी, गोधूमः, कार्पासः, लशुनं, मरीचिका, द्विदलसस्यानि(pulses), सम्बारपदार्थाः(spices), कदलीफलं, कलायः, चणकः इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । कार्पासः तु अस्य मण्डलस्य अर्थव्यवस्थायाः महत्त्वपूर्णम् अङ्गम् अस्ति । पर्वतीयवनेषु शाकोटकवृक्षाः(साग), हरिद्रा, 'शिसव' इति काष्ठप्रकारः, खदिर इत्यादयः वृक्षप्रकाराः सन्ति । वस्त्रोद्यमाः, खाद्यतैलनिर्माणोद्यमाः, मुद्रणोद्यमाः इत्यादयः प्रचलन्ति ।
जनसङ्ख्या
सम्पादयतुजळगावमण्डलस्य जनसङ्ख्या(२०११) ३६,७९,९३६ अस्ति । अस्मिन् २१,९७,३६५ पुरुषाः, २०,३५,५५२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२२ अस्ति । अत्र साक्षरता ७९.७३% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-
१ चाळीसगाव
२ भडगाव
३ पाचोरा
४ जामनेर
५ पारोळा
६ एरण्डोल
७ धरणगाव
८ जळगाव
९ भुसावळ
१० मुक्ताईनगर
११ अमळनेर
१२ चोपडा
१३ यावल
१४ रावेर
१५ बोदवड
लोकजीवनम्
सम्पादयतुमण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकारं जनाः वदन्ति । अस्यां भाषायां साहित्यनिर्मितिः अपि भवति । मण्डलेऽस्मिन् निवसन्तः जनाः उत्सवप्रियाः । लेवा-पाटीदार-समाजः अस्मिन् मण्डले बहुसङ्ख्यः दृश्यते । मण्डलेऽस्मिन् गोण्ड, भिल, गावित, पारधी, लमाणी, जोगी, रामोशी-वडार, कोङ्गाडी इत्यादयः आदिवासिजनजातयः सन्ति । मण्डलेऽस्मिन् 'वाणी' इति वणिक्जातेः प्राचुर्यम् अस्ति । अक्षय्यतृतीयादिने 'आखाजी' उत्सवः, विवाहोत्सवे 'जागरण-गोन्धळ', मुञ्जाभोजनम् इत्यादिकान् उत्सवान् जनाः आचरन्ति । अत्रस्थानां महिलानां विशेषाणि गीतानि सन्ति । साहित्यविशेषेषु गीतेषु महिलाः आत्मनिवेदनं कुर्वन्ति ।
व्यक्तिविशेषाः
सम्पादयतुमण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । साने गुरुजी, बालकवी ठोमरे, माधव ज्युलियन, बहिणाबाई चौधरी, स्वामी-कुवलयानन्द, पद्मश्री ना.धो. महानोर, पद्मश्री भालचन्द्र नेमाडे, भवरलाल जैन इत्यादीनां कार्यक्षेत्रं जन्मस्थलं वा आसीत् इदं मण्डलम् ।
वीक्षणीयस्थलानि
सम्पादयतुजळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- श्री-पद्मालयः
- एरण्डोल, पारोळा इत्यत्र राज्ञी लक्ष्मीबाई इत्यस्याः भूमिकोटः
- सन्त-सखाराम-महाराजस्य समाधिस्थानम्
- तत्त्वज्ञान-मन्दिरम्
- पाण्डववाडा, एरण्डोल इत्यत्र पर्शियन शिलालेखः
- उनपदेव, सुनपदेव, नाझरदेव च इत्येतेषु स्थानेषु उष्णजलकुण्डानि
- पाल इत्यत्र मनुदेवी
- ओङ्कारेश्वरमन्दिरम्
- सन्त-मुक्ताबाई मन्दिरम्
- सन्त-चाङ्गदेव मन्दिरम्