जबलपुरम्
जबलपुरम् ( ( शृणु) /ˈdʒəbələpʊrəm/) (हिन्दी: जबलपुर, आङ्ग्ल: Jabalpur) इत्येतन्नगरं मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतस्य जबलपुरमण्डलस्य केन्द्रम् अस्ति । जबलपुर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं नर्मदानद्याः उत्तरभागे स्थितम् अस्ति । इदं नगरं परितः सरोवराः, मन्दिराणि च सन्ति । अस्मिन् नगरे उच्चन्यायालयः अपि अस्ति । जबलपुर-महानगरे साक्षरतायाः, संस्कृतेः, सामाजिकस्य, राजनीतेः इत्यादीनां प्राचीना परम्परा प्रचलति । नगरमिदं आङ्ग्लं, हिन्दी, उर्दू इत्यादीनां भाषाणां लेखकानां, प्रकाशकानां, मुद्रकानां च आवासस्थलम् अस्ति ।
जबलपुर-महानगरम् jabalapur | |
---|---|
'संस्कार धानी' | |
जबलपुर-महानगरम् | |
Nickname(s): ‘’’नर्मदानगरी’’’, ‘’’Ordnance Hub of India’’’ | |
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुर नगरम् | |
देशः | भारतम् |
राज्यम् | मध्यप्रदेशराज्यम् |
मण्डलम् | जबलपुरमण्डलम् |
महानगरविस्तारः | ३६७ च. कि. मी. |
जनसङ्ख्या (२०११) | १२, ६७, ५६४ |
Government | |
• Type | महापौरपरिषद्-सर्वकारः (Mayor–council government) |
• Body | जबलपुर म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | प्रभात साहु |
• म्युनिसिपल कमीशनर् | राजेश मुश्रा |
Demonym(s) | जबलपुरिया |
Time zone | UTC+५:३० (भारतीयमानकसमयः (IST)) |
पिन कोड |
४८२ xxx |
Area code(s) | ०७६१ |
Vehicle registration | एम पी - २० |
साक्षरता | ८९.१३% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४६% |
Website | Jabalpur Municipal Corporation |
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं जबलपुर-महानगरस्य जनसङ्ख्या १२,६७,५६४ अस्ति । अत्र ६,६३,०९६ पुरुषाः, ६,०४,४६८ महिलाः च सन्ति । भारतस्य प्रमुखनगरेषु जबलपुर-महानगरस्य अष्टत्रिंशत्(३८)क्रमाङ्कः अस्ति । अत्र साक्षरता ८९.१३% अस्ति ।
भौगोलिकी स्थितिः
सम्पादयतुजबलपुरनगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३º १० उ., ७९º ५६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४१२ मी. अस्ति । इदं नगरं नर्मदानद्याः तटे स्थितम् अस्ति । अस्य नगरस्य एकस्मिन् भागे विन्ध्यपर्वतशृङ्खला अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ८ ºC भवति । अस्मिन् नगरे मार्च-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४२ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति । अत्र सामान्यतः ३५ इन्च(inch) स्तरं यावत् वर्षा भवति ।
इतिहासः
सम्पादयतुपुराणानुसारम् अस्य नगरस्य नाम जाबालिऋषेः नामोपरि अभवत् । जाबालिऋषिः अत्रैव निवसति स्म । पुरा अस्य नगरस्य नाम जाबालिपुरम् आसीत् । किन्तु अपभ्रंशकारणात् जबलपुरम् इत्यभवत् ।
१७८१ परम् अत्र मराठा-शासकानाम् आधिपत्यमासीत् । इदं नगरं मराठा-शासनस्य मुख्यालयः आसीत् । ततः परम् इदं नगरं मध्यप्रदेशराज्यस्य सागरविभागस्य नर्मदाविभागस्य च मुख्यालयः अभवत् । अत्र १८६४ तमे वर्षे नगरपालिकायाः निर्माणम् अभवत् । अस्य नगरस्य एकस्मिन् पर्वतक्षेत्रे मदन महल अस्ति । अस्य भवनस्य निर्माणं ११०० तमे वर्षे राज्ञा मदन सिंह इत्यनेन कारितम् । इदम् एकं प्राचीनं गोण्ड-शासनकालीनं भवनम् अस्ति । अस्य भवनस्य पश्चिमे एकं नगरम् अस्ति यत् चतुर्दशतमायां शताब्द्यां चतुर्णां स्वतन्त्रगोण्ड-राज्यानां प्रमुखं नगरमासीत् ।
भेडाघाट, ग्वारीघाट, जबलपुरम् इत्यादिभ्यः स्थानेभ्यः जीवाश्मनः प्राप्यन्ते । अतः इदं नगरं प्रागैतिहासिककालस्य पुरापाषाणकालीनानां मनुष्याणां निवासस्थानमासीत् इति स्पष्टं भवति । अस्य नगरस्य मदन महल, सरोवराः, मन्दिराणि च प्राचीनानि सन्ति ।
कृषिः वाणिज्यं च
सम्पादयतुअस्मिन् नगरे अग्निशस्त्राणां (Gun) केन्द्रिययन्त्रागारः, शस्त्रागारः च अस्ति । अस्मिन् नगरे सस्योत्पादनम् अधिकमात्रायां भवति । अस्य नगरस्य समीपस्थे क्षेत्रे पश्चिमतटे एका उर्वरा भूमिः वर्तते । तत्र गोधूमस्य कृषिः भवति । तण्डुलाः, गोधूमः, चणकः इत्यादयः प्रमुखानि सस्योत्पादनानि सन्ति । अत्र लौहः, चूर्णपाषाणः, फेल्सपार्, मैङ्गनीज़् इत्यादीनाम् अधिकमात्रायां खननं भवति ।
जबलपुर-नगरस्य शैक्षणिकसंस्थानानि
सम्पादयतु- जवाहरलाल नेहरू कृषि विश्वविद्यालय
- रानी दुर्गावती विश्वविद्यालय
- एम. पी. भोज मुक्त विश्वविद्यालय
- कॉलेज ऑफ एग्रिकल्चर एञ्जिनियरिङ्ग्
- फेकल्टी ऑफ् मेनेज्मेण्ट् स्टडीज़् कॉलेज ऑफ मटीरियल मेनेजमेण्ट
- जी.एस. कॉलेज ऑफ कॉमर्स एण्ड इकोनॉमिक्स्
वीक्षणीयस्थलानि
सम्पादयतुमदन महल
सम्पादयतुमदन महल नामकं दुर्गं जबलपुर-नगरात् २ कि. मी. दूरे स्थितमस्ति । कलचुरी-शासनानन्तरं जबलपुर-नगरे गोण्ड-शासकाः आगतवन्तः । अस्य दुर्गस्य निर्माणं गोण्ड-शासकेन मदन सिंह इत्याख्येन कारितम् । इदं दुर्गं गोण्ड-शासनकालस्य साक्षी अस्ति । इदं दुर्गम् एकस्मिन् लघुशैले स्थितमस्ति । अस्मिन् दुर्गे शाही-वंशस्य मुख्यकक्षः, लघुजलाशयः च अस्ति । मदन महल इत्येतत् दुर्गं भारतस्य आकर्षकेषु प्राचीनस्मारकेषु अन्यतमम् अस्ति ।
रानी दुर्गावती-सङ्ग्रहालयः
सम्पादयतुरानी दुर्गावती-सङ्ग्रहालयः जबलपुर-महानगरे स्थितः अस्ति । मध्यप्रदेशराज्यस्य प्रसिद्धेषु सङ्ग्रहालयेषु अयम् अन्यतमः अस्ति । अस्य सङ्ग्रहालयस्य निर्माणं १९६४ तमे वर्षे जातम् । अयं सङ्ग्रहालयः गोण्ड-वंशस्य राज्ञ्याः दुर्गावत्याः स्मृतौ निर्मापितः । अस्मिन् सङ्ग्रहालये मूर्तीनां, शिलालेखानाम्, ऐतिहासिकीनां सांस्कृतिकीनां च कलाकृतीनां विशालसङ्ग्रहः अस्ति । अस्मिन् सङ्ग्रहालये दुर्गादेव्याः पाषाणनिर्मिता मूर्तिः अपि अस्ति । सङ्ग्रहालयेऽस्मिन् महात्मा गान्धी इत्याख्यस्य चित्राणि सन्ति । अस्मिन् सङ्ग्राहलये प्राचीनावशेषाः, अभिलेखाः, मुद्रणानि च सन्ति ।
इदं स्थलं जबलपुरमण्डले स्थितमस्ति । इदम् एकं रमणीयस्थलमस्ति । अस्य स्थलस्य समीपे चतुष्षष्ठियोगिनी-मन्दिरमपि अस्ति । धुआधार-जलप्रपातः अपि भेडाघाट इत्यस्य समीपे अस्ति । अत्र नर्मदानदी प्रवहति ।
गुप्तेश्वर-मन्दिरम्
सम्पादयतुअस्य मन्दिरस्य निर्माणम् १२५ वर्षपूर्वम् अभवत् । इदं मन्दिरं जबलपुर-महानगरस्य मध्ये स्थितमस्ति । अस्य मन्दिरस्य निर्माणं गल्ला मण्डी इत्यस्य व्यापारिभिः कारितम् । मन्दिरेऽस्मिन् प्राचीनकलाकृतयः सन्ति । अस्य मन्दिरस्य मान्यता अस्ति यत् यः कोऽपि जनः देव्याः अन्नपूर्णायाः आराधनां कृत्वा मन्दिरं गच्छति चेत् सः सदैव धनधान्यैः परिपूर्णः भवति ।
अन्यानि वीक्षणीयस्थलानि -
- त्रिपुर सुन्दरी मन्दिरम्
- बाजना मठ
- तिलवारा घाट
- जिलहरी घाट
- ग्वारी घाट
- खारी घाट
- लम्हेट घाट
जबलपुर-नगरस्य प्रसिद्धाः व्यक्तयः
सम्पादयतु- भवानी प्रसाद तिवारी
- हरिशङ्कर परसाई
- महर्षि महेश योगी
- सुभद्रा कुमारी चौहान
- द्वारका प्रसाद मिश्र
- आचार्य रजनीश
- ब्रजेश मिश्र
- भूपेन्द्र नाथ कौशिक
- प्रेमनाथ
- राजिन्दर नाथ
मार्गाः
सम्पादयतुवायुमार्गः
सम्पादयतुजबलपुर-महानगरे डुमना-विमानस्थानकम् अस्ति । भारतस्य बहुभ्यः नगरेभ्यः वायुयानेन जबलपुर-नगरं प्रति विमानयानानि सन्ति ।
धूमशकटमार्गः
सम्पादयतुजबलपुर-महानगरे ’पश्चिम मध्य रेल्वे’ इत्यस्य मुख्यालयः अस्ति । मुम्बई, देहली, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, बेङ्गळूरु, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः जबलपुर-नगरं प्रति रेलयानानि सन्ति ।
भूमार्गः
सम्पादयतुजबलपुर-महानगरं राष्ट्रियराजमार्गेण सह संयुक्तम् अस्ति । अतः वाराणसी, लखनऊ, कानपुर, भोपाल, इन्दौर, लुधियाना, नागपुर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण जबलपुर-नगराय बस्-यानानि प्राप्यन्ते ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये जबलपुरम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://hi.bharatdiscovery.org/india/%E0%A4%9C%E0%A4%AC%E0%A4%B2%E0%A4%AA%E0%A5%81%E0%A4%B0
http://www.census2011.co.in/census/city/307-jabalpur.html