चिदम्बरम् सुब्रह्मण्यम्
चिदम्बरम् सुब्रह्मण्यम् हरितक्रान्तेः जनकः कथ्यते । यदा भारतेन स्वातन्त्र्यं प्राप्तम् आसीत्, तदा खाद्योत्पादनस्य स्थितिः अत्यन्तं चिन्तनीयम् आसीत् । बहुत्र अनावृष्टिः अभवत् । तेन वङ्गबिहारोडिशाक्षेत्रेषु जनाः क्षुधार्ततायां मृतङ्गताः । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः कृषिमन्त्रिपदं प्राप्तवान्, तदा तेन खाद्यान्नसमस्याः निवारयितुं बह्व्यः योजनाः प्रचालिताः । कृषिक्षेत्रे तस्य नीतिः उत्कृष्टा वर्तते स्म । “सी. सुब्रह्मणयम्” इत्यस्य प्रयासैः भारतदेशस्य खाद्यान्नोप्तादने विकासः अभवत् । साम्प्रतं भारतदेशः कृषिक्षेत्रे आत्मनिर्भरः अस्ति ।
Bharat Ratna Chidambaram Subramaniam | |
---|---|
Minister of Defence | |
In office 28 July 1979 – 14 January 1980 | |
Prime Minister | Charan Singh |
Preceded by | Jagjivan Ram |
Succeeded by | Indira Gandhi |
In office 1975–1977 | |
Prime Minister | Indira Gandhi |
Preceded by | Yashwantrao Chavan |
Succeeded by | Haribhai M. Patel |
व्यैय्यक्तिकसूचना | |
Born | ३०, १९१० |
Died | ७, २००० | (आयुः ९०)
जन्म, परिवारश्च
सम्पादयतु“चिदम्बरम् सुब्रह्मणयम्” इत्याख्यस्य जन्म ई. स. १९१० तमवर्षस्य जनवरी-मासस्य ३० तमे (३० जनवरी १९१०) दिनाङ्के तमिळनाडू-राज्यस्य कोयम्बतूर-मण्डलस्य पोलाची-ग्रामे अभवत् [१]।
शिक्षणम्
सम्पादयतु“सी. सुब्रह्मण्यम्” इत्याख्यस्य प्रारम्भिकशिक्षणं स्वस्य ग्रामे एव अभवत् । प्रारम्भिकशिक्षणानन्तरं चेन्नै-नगरे तस्य उच्चशिक्षणम् अभवत् । चेन्नै-नगरस्य प्रेसीडेन्सी-महाविद्यालये सः विज्ञानविषये स्नातकपदवीं प्रापत् । अनन्तरम् ई. स. १९३२ तमे वर्षे मद्रास-विश्वविद्यालयात् विधिशास्त्रे स्नातकपदवीं प्राप्तवान् । किन्तु ई. स. १९३६ तमवर्षपर्यन्तम् अपि सः अधिवक्तुः वृत्तिं न आरब्धवान् । ई. स. १९३६ तमवर्षानन्तरं तेन वृत्तिः आरब्धा । किन्तु तस्मिन् समये सः स्वातन्त्र्यान्दोलने संलग्नः जातः आसीत् ।
राजनैतिकजीवनम्
सम्पादयतुई. स. १९३६ तमवर्षात् तेन वृत्त्या सह स्वातन्त्र्यान्दोलनेषु भागः अपि गृहीतः आसीत् । आन्दोलनेषु अपि तस्य अभिरूचिः वर्तते स्म । सः भारतस्य स्थितिः दृष्टवान् आसीत् । अतः सः अपि योगदानं दातुमिच्छति स्म । सः कॉङ्ग्रेस-पक्षस्य नेता आसीत् । अन्यैः राजनेतृभिः सह आन्दोलनेषु “सी. सुब्रह्मणयम्” इत्याख्येन अपि बहूनि कार्याणि कृतानि आसन् । ई. स. १९४२ तमे वर्षे “भारत छोडो” इत्यस्मिन् आन्दोलने कॉङ्ग्रेस्-पक्षस्य महत्तमाः राजनेतारः कारागारं गतवन्तः आसन् । तेषु “सी. सुब्रह्मण्यम्” इत्याख्यः अपि अन्यतमः आसीत् । अतः तस्मिन्समये कोयम्बतूर-मण्डलस्य प्रमुखेषु नेतृषु तस्य स्थानम् आसीत् । समयान्तरे तेन कॉङ्ग्रेस-समितौ अपि अध्यक्षत्वेन स्थानं प्राप्तम् आसीत् । तमिलनाडू-राज्ये कॉङ्ग्रे-पक्षस्य कार्यसमितौ अपि “सी. सुब्रह्मण्यम्” इत्याख्यः महत्त्वपूर्णं स्थानं प्राप्तवान् आसीत् । ई. स. १९४६ तमे वर्षे सः संविधानसभायाः सदस्यतां प्रापत् । ई. स. १९५२ तमवर्षपर्यन्तं सः संविधानसभायाः सदस्यः आसीत् । ई. स. १९५२ तमे वर्षे सः तमिळनाडू-राज्यस्य विधानसभायाः सदस्यत्वेन चितः । सदस्यतां प्राप्ते सति सः प्रदेशस्य मन्त्रिमण्डले स्थानं प्राप्तवान् । ई. स. १९५२ तः १९६२ तमवर्षपर्यन्तं सः राज्यसर्वकारस्य विभिन्नेषु महत्त्वपूर्णपदेषु कार्यं कृतवान् आसीत् । सः राज्यस्य वित्तमन्त्री, शिक्षणमन्त्री, विधिमन्त्री इत्यादिषु पदेषु अपि कार्यम् अकरोत् । तेन दशवर्षेषु शिक्षणक्षेत्रे शिक्षणस्य विस्ताराय, विकासाय च अपि महत्त्वपूर्णानि कार्याणि कृतानि आसन् ।
ई. स. १९६२ तमे वर्षे निर्वाचने विजयं प्राप्ते सति अयं केन्द्रियमन्त्रिमण्डलस्य मन्त्रित्वेन चितः । तदा सर्वकारेण तस्मै लोहखानिजमन्त्रालयस्य (Ministry of Steel and Mins) दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६२ तः १९६४ तमवर्षं यावत् अस्य मन्त्रालयस्य एव मन्त्री आसीत् । अनन्तरम् ई. स. १९६४ तः १९६५ तमवर्षं यावत् सर्वकारेण तस्मै खाद्यकृषिमन्त्रालयस्य दायित्त्वं प्रदत्तम् आसीत् । ई. स. १९६६ तः १९६७ तमवर्षं यावत् खाद्यकृषिमन्त्रायेन सह विकासविभागस्य दायित्त्वं अपि संयोजितः । अस्मिन् पदे तेन कृषिक्षेत्रे बहूनि सफलानि कार्याणि कृतानि । तेन उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च प्रयोगाय अपि कृषकाः प्रेरिताः । तेन फलस्वरूपं १९६० तमे दशके भारतदेशः खाद्योत्पादने सक्षमः जातः । अनेन प्रकारेण तस्य कार्याणां चर्चा अन्ताराष्ट्रियस्तरे विस्तृता । ई. स. १९९० तमे वर्षे सः महाराष्ट्र-राज्यस्य राज्यपालत्वेन नियुक्तः जातः । वर्षत्रयं यावत् सः अस्मिन् पदे कार्यरतः आसीत् । अनन्तरं “सी. सुब्रह्मण्यम्” इत्याख्यः “भारतीयविद्याभवनम्” इत्यस्याः संस्थायाः अध्यक्षपदं प्रापत् । अस्मिन् पदे कार्यरते सति “सी. सुब्रह्मण्यम्” इत्याख्येन बहूनि महत्त्वपूर्णानि पुस्तकानि रचितानि ।
हरितक्रान्तेः जनकः “सी. सुब्रह्मण्यम्”
सम्पादयतुभारतस्य स्वान्त्र्यसमये खाद्यान्नविषये देशस्य स्थितिः दयनीया आसीत् । किन्तु साम्प्रतं भारतदेशः कृषिक्षेत्रे सम्पूर्णतया आत्मनिर्भरः अस्ति । भारतदेशस्य स्वतन्त्रतायाः प्राग् बहुषु स्थानेषु जनाः अनावृष्ट्या पीडिताः आसन् । वङ्ग-बिहार-ओडिशाक्षेत्रेषु बहवः जनाः क्षुधया पीडिताः सन्तः मृतङ्गताः । किन्तु स्वातन्त्र्यानन्तरं कदापि तादृशी स्थितिः न सर्जिता । यदा “सी. सुब्रह्मण्यम्” इत्याख्यः केन्द्रसर्वकारस्य कृषिमन्त्रिपदं प्रापत्, तदा तेन खाद्यान्नोत्पादने विकासाय योजनाः प्रचालिताः । ताभिः प्रचालिताभिः योजनाभिः कृषकाः जागृताः अभवन् । तावदेव कृषकाः उत्तमानाम् अङ्कुराणाम्, उर्वरकाणां च उपयोगं कुर्वन्तः सन्ति । “सी. सुब्रह्मण्यम्” इत्याख्येन भारतदेशे अधिकमात्रायां खाद्योत्पादनं कर्तुं शक्यते । “सी. सुब्रह्मण्यम्” इत्याख्यस्य कृषिनीतिभ्यः ई. स. १९७२ तमे वर्षे खाद्यान्नोत्पादने नामाङ्कनम् अभवत् [२]। तावदेव इयं घटना “हरितक्रान्तिः” इति नाम्ना संज्ञायते । “डॉ. बोरलाग” इत्याख्यः नोबेल-पुरस्कारभाक् आसीत् । “बोरलाग” इत्याख्येन अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य अस्मै कार्याय प्रशंसा कृता आसीत् ।
भारतरत्नप्रशस्तिः. पुरस्काराः च
सम्पादयतुई. स. १९९८ तमे वर्षे सर्वकारेण “सी. सुब्रह्मण्यम्” इत्याख्यः सर्वोच्चनागरिकत्वेन “भारतरत्नपुरस्कारेण” सम्मानितः [३]।
ई. स. १९८८ तमे वर्षे सः अनुव्रत-पुरस्कारं प्राप्तवान् आसीत् । ई. स. १९९६ तमे वर्षे तेन “नोर्मन बोरलाग” इत्ययं पुरस्कारः प्राप्तः । तस्मिन्नैव वर्षे सः “ऊ थांट शान्ति” इत्यनेन पुरस्कारेण अपि सम्मानितः । राष्ट्रियैकतायै तस्मै “वाय्. एस्, चौहान” इतीमं पुरस्कारं प्रदत्तम् आसीत् । ई. स. २०१० तमे वर्षे “सी. चिदम्बर” इत्याख्यस्य स्मृतौ भारतसर्वकारेण भारतीयमुद्रासु (Coins) तस्य चित्रं मुद्रितम् आसीत् । तस्मिन्नैव वर्षे सन्देशालयचीटिकासु अपि “सी. सुब्रह्मण्यम्” इत्याख्यस्य चित्रं प्रकाशितम् आसीत् ।
मृत्युः
सम्पादयतुई. स. २००० तमस्य वर्षस्य नवम्बर-मासस्य ७ दिनाङ्के (७ नवम्बर २०००) “सी. सुब्रह्मण्यम्” इत्याख्यः मृतङ्गतः[४] ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु- About us - National Agro Foundation
- Genesis - Bharathidasan Institute of Management Archived २०१५-०४-२५ at the Wayback Machine
- Chennaionline Archived २००७-०३-१२ at the Wayback Machine
सन्दर्भः
सम्पादयतु- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३७
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३६
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३९
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३३९