विग्रहराज चौहान
महान् हिन्दुराजा विग्रहराजः ( ( शृणु) /ˈvɪɡrəhərɑːjə xɔːhɑːnə/) (हिन्दी: विग्रहराज चौहान, आङ्ग्ल: Vigrahraj Chauhan) वीसलदेवः, विश्वलः, वीसलः, कविबान्धवः, विग्रहराजचतुर्थः इति अपि प्रसिद्धः । भारतदेशस्य उत्तरभागात् तुर्क-जनानां समूलं निकन्दनं कर्ता विग्रहराजः गवां, ब्राह्मणानां, हिन्दुधर्मस्य च रक्षकः आसीत् । अजयमेरु-प्रदेशे सरस्वतीकण्ठाभरणविद्यापीठस्य स्थापनाम् अकरोत् सः । अधुना तस्य विद्यापीठस्य स्थाने 'मस्जिद्' अस्ति । अनेकेषां राज्ञां गर्वहन्ता विग्रहराजः चौहानवंशजः आसीत् ।
विग्रहराज चौहान | |
---|---|
महान् हिन्दुराजा
| |
पति/पत्नी | देशलदेवी |
पिता | अर्णोराजः |
माता | सुधवा |
मतम् | हिन्दुधर्मः |
जन्म, परिवारश्च
सम्पादयतुसद्यः विग्रहराजस्य जन्मतिथिविषये किमपि न प्राप्तम् । विग्रहराजस्य पितुः नाम अर्णोराजः, मातुः नाम च सुधवा आसीत् । विग्रहराजस्य त्रयः भ्रातरः आसन् । तेषां नामानि क्रमेण जगद्देवः, देवदत्तः, सोमेश्वरश्च । जगद्देवः ज्येष्ठः, देवदत्तः अनुजः आसीत् । सोमेश्वरः विग्रहराजस्य विमातुः काञ्चनदेव्याः पुत्रः आसीत् । विग्रहराजस्य पत्न्याः नाम देशलदेवी आसीत् ।
“ | तस्मिन्नुदग्ररिपु वर्ग जये निसर्ग, |
” |
सा देहल्याः इन्द्रप्रस्थ-प्रदेशस्य राज्ञः वसन्तपालस्य पुत्री आसीत् । तयोः द्वे अपत्ये आस्ताम् । तयोः नामनी क्रमेण अपरगाङ्गेयः, नागार्जुनश्च [२] ।
वैरोद्धारम्
सम्पादयतुअर्णोराजः युद्धे द्विवारं पराजितः अभवत् । सिद्धराजस्य सम्मुखं पराजयः, कुमारपालस्य सम्मुखं पराजयः च । अतः विग्रहराजः स्वपितुः कलङ्कम् अपाकर्तुम् इच्छति स्म । ततः विग्रहराजः चितौड-प्रदेशस्य उपरि आक्रमणम् अकरोत् । तदा चित्तौड-प्रदेशे कुमारपालस्य प्रियस्य दण्डनायकस्य सज्जनस्य शासनम् आसीत् । सज्जनः नाममात्रम् एव सज्जनः आसीत्, अन्यथा तस्य सर्वाणि कृत्यानि दुर्जनायन्ते स्म । तं पराजित्य विग्रहराजः कुमारपालशासितेषु प्रदेशेषु उत्पातम् अकरोत् । ततः विशालसैन्येन सह कुमारपालः विग्रहराजेन सह युद्धं कर्तुं नागौर-प्रदेशं गतः । परन्तु अनेकेषां युद्धानां विजेता कुमारपालः पराजितः सन् अह्णिलपाटण-प्रदेशं प्रत्यगच्छत् । एवं कुमारपालस्य दर्पं दूरीकृत्य विग्रहराजः स्वपितुः अपमानस्य वैरोद्धारम् अकरोत् (प्रतिशोध लिया) । ततः तेन मारवाड-प्रदेशस्य अनेके प्रदेशाः स्वाधीन्ये कृताः । विग्रहराजस्य तथा तस्य उत्तराधिकारिणां च शौर्यस्य गाथाः बिजौलिया-मण्डलगढ-जहाजपुर-मेनाल-नरहड-प्रदेशेभ्यः प्राप्तेषु शिलालेखेषु बहुधा अङ्किताः सन्ति । देहली-आसिका-प्रदेशयोः स्वाधिपत्यं प्रस्थाप्य विग्रहराजेन चतसॄषु दिक्षु स्वयशः प्रसारितम् ।
तुर्कविजयः
सम्पादयतुतुर्कविजयः अपि विग्रहराजस्य अतिमहत्त्वपूर्णः विजयः आसीत् । तुर्कस्य इतिहासे प्राप्यते यत्, सल्जुको-नामकः राजा खुशरो गजनी-नामकं राजानं तुर्क-प्रदेशात् बहिष्करोति । अतः खुशरो पञ्जाब-प्रदेशे निवसति स्म । भारतीयसीमाप्रदेशे निवस्य सः पौनःपुन्येन भारतीयसीमायाः अतिक्रमणं करोति स्म । ई.११५३-११६० काले खुशरो यदा सपादलक्ष-प्रदेशस्य उपरि आक्रमणम् अकरोत्, तदा १००० गजैः, एकलक्षेण अश्वारोहिभिः, नैकैः सैनिकैः सह मिलित्वा विग्रहराजः खुशरो इत्यस्य निग्रहणम् अकरोत् । बुभुक्षितव्याघ्रवत् विग्रहराजः खुशरो इत्यस्य सेनायाः उपरि आक्रमणम् अकरोत् । ब्रह्मपुर्याः धरा तुर्कसैनिकानां रक्तेन रञ्जिता अभवत् । ततः सा धरा तुर्कजनरहिता अपि अभवत् ।
तुर्कविजये विग्रहराजस्य चातुर्यस्य, धर्मनिष्टायाः अति महत्त्वपूर्णं योगदानम् आसीत् । यतः विग्रहराजस्य श्रीधर-आख्यः मन्त्री खुशरो इत्यस्मात् विपुलोत्कोचं स्वीकृतवान् आसीत् । अतः सः पौनःपुन्येन विग्रहराजम् आग्रहेण वदति स्म यत्, "शत्रुपक्षस्य सेना अति विशाला अस्ति, वयं तस्य सम्मुखं निश्चयेन पराजिताः भविष्यामः । अतः प्रजाहिताय, स्वहिताय च अस्माभिः तस्य आधिपत्यं स्वीकृत्य आत्मसर्पणम् एव करणीयम्" इति । मन्त्रिणः उक्तेन परामर्शेन विग्रहराजः चिन्तामग्नः तु अभवत् । परन्तु सः अचिन्तयत्, "प्राजानां, ब्राह्मणानां, गवां च हिताय मया येन केन प्रकारेण युद्धं करणीयम् एव" इति । अतः सः युद्धस्य निर्णयम् अकरोत् । ततः तेन ज्ञातं यत्, मन्त्री उत्कोचं नीत्वा तं पथभ्रष्टं कुर्वन् आसीत् । मन्त्रिणः देशद्रोहं ज्ञात्वा विग्रहराजः तं बन्दिनम् अकरोत् । ततः युद्धं कृत्वा विजयी अभवत् ।
धार्मिककार्याणि
सम्पादयतुविग्रहराजः शैवमतानुयायी आसीत् । परन्तु सः सर्वेषां धर्माणां, सम्प्रदायानां च सम्माननं करोति स्म । जैनमुनिभ्यः तेन अनेकानि विहाराणि निर्मापितानि । जैनोत्सवेषु उत्साहेन भागम् ऊढ्वा स्वयोगदानम् अपि यच्छति स्म । जैनश्वेताम्बराचार्यस्य धर्मघोष सूरि इत्यस्य सम्माननत्वात् विग्रहराजेन एकादश्यां तिथौ आराज्ये पशुवधे कठोरनिषेधः उद्घोषितः आसीत् [३] ।
गौरक्षा, ब्राह्मणरक्षा, संस्कृतिरक्षा च तस्य धर्मः आसीत् । अतः सः संस्कृतविद्यापीठस्य स्थापनाम् अकरोत् । तस्य विद्यापीठस्य नाम सरस्वतीकण्ठाभरणविद्यापीठम् इति । तत् विद्यापीठम् आदिकालात् अजमेर-प्रदेशे स्थितम् अस्ति । एतस्य विद्यापीठस्य निर्माणं चौहाणवंशीयराजा विग्रहराजः अकारयत् । शिल्पकलायां प्रवीणः सः स्वराज्ये शिल्पकलायाः पठनपाठनाय एतस्य विद्यापीठस्य स्थापनाम् अकरोत् । अधुना एतस्य नाम 'अढाई दिन का झोपडा' इति अस्ति । एतस्य पृष्ठे मान्यता अस्ति यत्, एतस्य विद्यापीठस्य विध्वंसं तुर्क-जनाः एकस्मिन् दिने उत दिनद्वये कर्तुं न शक्तवन्तः, अपि तु एतस्य विध्वंसाय सार्धद्विदिनस्य कालः अभवत् । अतः एतस्य विद्यापीठस्य स्थाने स्थापितस्य 'मस्जिद्' इत्यस्य नाम 'अढाई दिन का झोपडा' इति अस्ति [४] । 'अढाई दिन का झोपडा' इत्यस्य नाम्नः पृष्ठे अन्याः अपि किंवदन्त्यः श्रूयन्ते । सुप्रसिद्धस्य एतस्य विद्यापीठस्य ध्वंसः तुर्क-देशीयैः यवनैः कृतः । यतो हि एतत् 'मस्जिद्'-विशेषं मन्दिरस्य, विद्यापीठस्य च ध्वसानन्तरं तयोः अवशेषेभ्यः निर्मितम् अस्ति, अतः अन्तर्भागे एतस्य 'मस्जिद्' इत्यस्य स्थापत्यं मन्दिरवत् दरीदृश्यते ।
उत्तमकविः
सम्पादयतुसः अनेकेभ्यः कविभ्यः आश्रयदानम् अपि अकरोत् । अतः सः कविबान्धवः इत्यपि प्रख्यातः आसीत् । युद्धक्षेत्रे शत्रूणां निकन्दकः शूरवीरराजा विग्रहराजः कविः अपि आसीत् । सः युद्धे असेः उपयोगे यथा कुशलः आसीत्, तथा लेखन्याः उपयोगे अपि आसीत् । विग्रहराजः "हरकेलि" आख्यं नाटकम् अरचयत् । तत् नाटकं शिवमहाराजस्य (छत्रपति शिवाजी) प्रशंसायां रचितम् आसीत् । तत् नाटकं शिलालेखे उत्कीर्ण्य स्वस्थापिते सरस्वतीकण्ठाभरणविद्यापीठे प्रास्थापयत् । ततः ११९२ तमे वर्षे महोम्मद घोरी इत्याख्येन यनवाक्रान्त्रा विद्यापीठस्य ध्वंसः कृतः । एवं विद्यापीठेन सह तत्र स्थिताः सर्वेऽपि शिलालेखाः भूगर्भिताः अभूवन् । १८६५ तमे वर्षे जनरल् कनिङ्घम् आख्यः पुरातत्ववेत्ता 'ढाई दिन का झोपडा' इत्यस्य प्राङ्गणे उत्खननम् अकारयत् । उत्खननकाले "हरिकेलि"-नाटकस्य शिलालेखाः प्राप्ताः [५] ।
वास्तुकलाविद्
सम्पादयतुपृथ्वीराजविजये उल्लेखः प्राप्यते यत्, विग्रहराजेन यस्मिन्नपि दुर्गे आधिपत्यं स्थापितं, तं दुर्गं परितः नगरस्य रचना कृता । तुर्क-देशीयानाम् आक्रमणे तेषु अनेकानि नगराणि ध्वस्तानि अभूवन् । अतः विग्रहराजेन रचितानि नगराणि कानि इति ज्ञानम् असम्भवम् । राजस्थानराज्यस्य टोङ्क-मण्डले वीसलपुर-आख्यं नगरं विद्यते, तत् नगरं विग्रहराजेन एव रचितम् इति इतिहासविदां मतम् [३] । सद्यः तस्य नगरस्य नागरिकाः सर्वकारेण स्थानान्तरिताः, यतः तत्र एकस्य जलबन्धस्य निर्माणम् अभवत् । तस्य जलबन्धस्य कार्यं १९९९ तमे वर्षे पूर्णम् अभवत् । एवं विग्रहराजस्य एषा रचना अपि विलुप्ता उत नष्टा । स्वपितुः अनुरसणं कृत्वा विग्रहराजोऽपि तडागस्य निर्माणम् अकरायत् । सः तडागः विशल्या उत विस्लिया इति प्रसिद्धः अभवत् ।
सरस्वतीकण्ठाभरणविद्यापीठं वास्तुकलायाः पठनपाठनाय उत्तमस्थलम् आसीत् । तद् विद्यापीठम् अपि वास्तुकलायाः उत्तमोदाहरणम् आसीत् । तस्य विद्यापीठस्य स्थापत्यकलायाः प्रशंसां जेम्स् टॉड्, जनरल् कनिङ्घम्, फरग्यूसन् सदृशाः स्थापत्यकलाविदः अकुर्वन् [६][७][८] ।
यशः, अन्तिमेच्छा च
सम्पादयतुविग्रहराजस्य शासनम् उत्तरस्य शिवालिक-प्रदेशात् दक्षिणस्य विन्ध्य-प्रदेशपर्यन्तम् अभवत् । दीवान हरविलास सारदा आख्यः लेखः अखिलभारतीयशक्तित्वेन उदितस्य विग्रहराजस्य तुलनां रोमन्-देशीयेन ओलेरियस् इत्येनेन, सम्राटा हर्षवर्धनेन सह च अकरोत् ।
विग्रहराजस्य एकः स्वप्नः आसीत् यत्, "आर्यावर्तस्य पवित्रभूमौ एकतायाः, अभयस्य, धर्मरक्षायाः, ब्राह्मणानां, तीर्थानां, गवां पवित्रतायाः च स्थितेः निर्माणं करणीयम्" इति । तस्य विचारधारायाः प्रभावः भारतीयविचारधारायाः उपरि अपि अभवत् । तेन सपथं गृहीतम् आसीत् यत्, "अहम् आर्यावर्तस्य पवित्रभूमेः प्रत्येकं म्लेच्छं (यवनाः, वैदेशिकाः च) निष्कासयिष्यामि" इति [९] । स्वस्य सैन्यबलेन उत्तरदिशि तु सः प्रतिज्ञां पूर्णाम् अकरोत्, परन्तु पश्चिमोत्तरदिशि तुर्क-जनानाम् उपद्रवं शान्तं कर्तुं न शक्तवान् । अतः स्ववंशजान् अपि सः असूचयत् यत्, "मम अवशिष्टं कार्यं भवन्तः येन केन प्रकारेण पूर्णं कुर्वन्तु" इति ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.indianrajputs.com/history/hada.php
उद्धरणम्
सम्पादयतु- ↑ मरू भारती, वर्ष ३, अङ्कः १, पृ. ८५, गा.ओ.सि. प-. २६९
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ ३.० ३.१ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ http://facebookwarrior.blogspot.in/2012/09/blog-post_17.html
- ↑ इण्डियन् एन्टिक्वेरी, भागः २०, पृ. २०१-२१२
- ↑ एनल्स् एण्ड् एन्टिक्विटीज् ऑफ् इण्डिया, खण्डः १, पृ.७७८
- ↑ आर्कियोलाजिकल् सर्वे ऑफ् इण्डिया, खण्डः १, पृ. १५६
- ↑ हिस्ट्री ऑफ् ईस्टर्न् एण्ड् इण्डियन् आर्किटेक्चर्, पृ.५१३
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६०. ISBN 978-81-86103-09-1 Check
|isbn=
value (help).
अधिकवाचनाय
सम्पादयतुBhartiya Sanskriti ke Rakshak by Dr. RatanLal Varma, Bharatiya Gurjara Parishad, 1987