गोमूत्रम्
गवां त्याज्यमपि गोमयं मानवलोकस्य सस्यलोकस्य च महोपकाराय भवति ।
- उदररोग - अर्श - पाण्डु - कामला - कृमिरोग - चिकित्सासु गोमूत्रम् उपयुज्यते ।
- प्रत्यहं प्रातरुत्थाय गोसमीपं गत्वा एकं माषदालं निमज्जयितुं यावत् आवश्यकं तावत् गोमूत्रं तीर्थरूपेण स्वीक्रियते चेत् रोगनिरोधकशक्ति: वर्धते इति प्रतीति: ।
- गोमूत्रम् उत्तमं सस्यपोषकं भवति । एकलीटर्मितं गोमूत्रं दशलीटर्मितेन जलेन योजयित्वा सस्यमूले सेचनेन सस्यं पुष्टं सत् शीघ्रं बहु फलति ।
- कृषिक्षेत्रे कीटनााशकत्वेन अपि गोमूत्रम् उपयुज्यते । 25 लीटर्मिते जले 500 मि. ली. गोमूत्रं योजयित्वा सस्यानाम् उपरि प्रोक्षणेन सामान्यकीटबाधा निवारिता भवति ।
- 20 लीटर्मिते गोमूत्रे 250मि.ली निम्बतैलं योजयित्वा ताम्रपात्रे क्वथनीयम् । क्वथनेन अवशिष्टार्धं शीतलं कृत्वा शोधनीयम् । एतत् कृषिरक्षकं तीव्रद्रावणम् । 25 लीटर्मिते जले एतस्य द्रावणस्य 500 मि.ली. योजयित्वा केदारेषु सेचनीयम् ।
- कुलित्थबीजानि संरक्षितुं गोमूत्रस्य उपयोगं कुर्वन्ति ।
गोमूत्रम् | |
---|---|
गोमूत्रम् |
गोमूत्रम् | |
---|---|
गोमूत्रम् |
गोमूत्रम् | |
---|---|
गोमूत्रम् |
गोमूत्रम् | |
---|---|
जीवामृत,गोमुत्रस्य उपयोगं |
गोमूत्रम् | |
---|---|
गोमूत्रम् |
गोमुत्रस्य उपयोगं | |
---|---|
चिकित्सासु गोमुत्रस्य उपयोगं |
रासायनिकसस्यपोषकाणां, रासायनिकक्रिमिनाशकानां च (ॐड्डठणड्ढट्टञण् इठज्ञदड्ढण्ड्ढेठज्ञथ ÷ ॐड्डठणड्ढट्टञण् ख्ठथदड्ढथड्ढदठथ ) उपयोगेन अद्य प्राकृतिक-भूसार: क्षीयमाण: अस्ति । सस्यानां रोगनिरोधकशक्ति: अपि हीयमाना दृश्यते । शाका:, फलानि , आहारधान्यानि च विषयुक्तानि भवन्ति । अत: सम्पूर्णरासायनिकरहित - कृषि -उत्पन्नानि निर्मातुम् उद्युक्ता: सन्ति कृषका: कृषिविज्ञानिनश्च । विदेशे, भारते बृहन्नगरेषु च क्वचित् रासायनिकरहितकृष्युत्पन्नानां विक्रयणसंस्था: अपि आरब्धा: सन्ति । अस्यां कृषिपद्धतौ गोमूत्र - निम्ब - तमाख्वादिभि: मध्वाज्यादिभि: निर्मितानि गोमयनिर्मितानि च कीटनाशकानि, सस्यपोषकाणि भूसारवर्धकानि च प्रधानतया उपयुज्यन्ते ।