ओजः
समासभरितोज्ज्वलबन्धत्वमोजः इत्युच्यते । विद्यानाथो दण्डी च समासभूयस्त्वमोजः इत्यकथयताम् । वर्गाक्षरेषु प्रथमानां द्वितीयैः, तृतीयाणां चतुर्थैः, रेफेण सजातीयेन वा वर्णेन, टवर्गाक्षरैः शषवर्णैर्दीर्घसमासैर्वा संयोगाद्गाढबन्धत्वरुपमा ओजः प्रादुर्भवतीति मम्मटोऽभिप्रैति । यथा –
ओजः |
---|
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- उद्दामदिवरदौघदानलहरीसौरभ्यलोभभ्रम-
- द्भृङ्गश्रेणि निबध्दझङ्कृतिकलावाचालितप्राङ्गणाः ।
- निस्सीमप्रथमानभूमविभवारम्भप्रियंभावुकाः
- मोदन्ते भुविवीररुद्रनृपतेर्विद्वद्गृहश्रेणयः ॥