एषा तेऽभिहिता साङ्ख्ये...

एषा तेऽभिहिता साङ्ख्ये () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समतायाः महिमानं वदति । पूर्वस्मिन् श्लोके भगवान् यस्याः समतायाः उपस्थापनम् अकरोत्, तस्याः समतायाः महिमानम् एतस्मिन् श्लोके, अग्रिमे श्लोके च करोति । सः कथयति यत्, हे पार्थ ! एषा समबुद्धिः साङ्ख्ययोग्या उक्ता, अधुना तु तां कर्मयोगानुगुणं शृणु । कर्मयोगसन्दर्भे समबुद्धियुक्तः त्वं कर्मबन्धनस्य त्यागं करिष्यसि इति ।

एषा तेऽभिहिता साङ्ख्ये...


समतायाः महिमा
श्लोकसङ्ख्या २/३९
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः सुखदुःखे समे कृत्वा...
अग्रिमश्लोकः नेहाभिक्रमनाशोऽस्ति...
 
गीतोपदेशः
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥

पदच्छेदः

सम्पादयतु

एषा, ते, अभिहिता, साङ्ख्ये, बुद्धिः, योगे, तु, इमाम्, शृणु । बुद्ध्या, युक्तः, यया, पार्थ, कर्मबन्धम्, प्रहास्यसि ॥

पार्थ ! एषा बुद्धिः ते साङ्ख्ये अभिहिता । योगे इमां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि ।

शब्दार्थः

सम्पादयतु
अन्वयः विवरणम् सरलसंस्कृतम्
पार्थ अ.पुं.स्मबो.एक. अर्जुन !
एषा एतत्-त,स्त्री.प्र.एक. इयम्
बुद्धिः इ.स्त्री.प्र.एक. मतिः
ते युष्मद्-द.सर्व.पुं.ष.एक. भवतः
साङ्ख्ये अ.नपुं.स.एक. ब्रह्मरूपे तत्त्वे
अभिहिता आ.स्त्री.प्र.एक. निरूपिता
(अस्याः) योगे अ.पुं.स.एक. अस्याः कर्मयोगे तु
इमाम् इदम्-म.सर्व.स्त्री.द्वि.एक. एतां बुद्धिम्
शृणु √शृ श्रवणे-पर.कर्तरि, लोट्.मपु.एक. आकर्णय
यया यत्-त.सर्व.स्त्री.तृ.एक. यया
बुद्ध्या इ.स्त्री.तृ.एक. धिया
युक्तः अ.पुं.प्र.एक. सहितः
कर्मबन्धम् अ.पुंं.द्वि.एक. कर्मरूपबन्धनम्
प्रहास्यसि प्र+ओहाक् त्यागे-पर.कर्तरि, लृट्.मपु.एक. त्यक्ष्यसि ।

व्याकरणम्

सम्पादयतु
  1. तेऽभिहिता = ते + अभिहिता - पूर्वरूपसन्धिः
  2. बुद्धिर्योगे = बुद्धिः + योगे – विसर्गसन्धिः (रेफः)
  3. त्विमाम् = तु + इमाम् – यण्सन्धिः
  4. युक्तो यया = युक्तः + यया – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  1. कर्मबन्धनम् = कर्म एव बन्धः, तम् - कर्मधारयः

कृदन्तः

सम्पादयतु
  1. अभिहिता = अभि + धा + क्त (कर्मणि)
  2. युक्तः = युजिर् + क्त (कर्तरि)

हे अर्जुन ! परमार्थवस्तुनि विषये एषः मार्गः तुभ्यम् उक्तः अस्ति । तत्प्राप्त्युपाये योगे तु ऊर्ध्वम् उपायं सूचयिष्यामि । यदि तां बुद्धिम् आश्रयसे तर्हि कर्मबन्धात् मुक्तो भवितुम् अर्हसि ।

भावार्थः []

सम्पादयतु

'एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु' – अत्र 'तु' इत्यस्य पदस्य सम्बन्धविद्च्छेदाय उपयोगः कृतः । अर्थाद्, पूर्वं साङ्ख्ययोगस्य चर्चायाम् एषः विषयः तु उक्तः एव । अधुना कर्मयोगानुगुणं शृणु । अत्र 'एषा' इत्यस्य पदस्य पूर्वश्लोके वर्णितां समबुद्धिं प्रति लक्ष्यम् । तस्याः समबुद्धेः वर्णनं पूर्वं साङ्ख्ययोगे [] कृतमस्ति । देहदेहिनोः विवेके सति समतायां सत्यां स्वतःसिद्धायाः आत्मस्थितेः अनुभवः भवति । किञ्च देहे रागः एव विषमतां जनयति । एतादृशं वर्णनं साङ्ख्ययोगवर्णनावसरे तु कृतम् अस्ति । अधुना तामेव समबुद्धिं कर्मयोगानुगुणं शृणु । 'इमाम्' इत्यस्य पदस्य उपयोगः किमर्थं चेद्, इतः परं एतस्याः समबुद्धेः कर्मयोगसन्दर्भे वर्णनं भविष्यति । सा समबुद्धिः कर्मयोगद्वारा कथं सुलभ्या ? तस्याः स्वरूपं किम् ? तस्याः महत्त्वं किम् इत्यादिषु विषयेषु भगवान् अर्जुनं श्रोतुम् आज्ञापयति ।

'बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि' – अर्जुनस्य मनसि युद्धे कृते पापं भविष्यति इति भयम् आसीत् [] । परन्तु भगवतः कथनानुसारं कर्मसु विषमबुद्धिः (रागद्वेषौ) एव पापकारणं भवति इति । समबुद्धित्वाद् पापं न कदापि भवति । यथा अखिले संसारे पापपुण्ययोः अनेकाः क्रियाः भवन्ति, परन्तु तासां क्रियाणां प्रभावः अस्मासु न भवति । किञ्च तत्र अस्माकं समबुद्धिः अस्ति । अर्थाद् तत्र पक्षपातः, आग्रहः, रागद्वेषौ च न सन्ति । तथैव समबुद्धियुक्तो भविष्यसि चेद्, तुभ्यमपि एतानि कर्माणि बन्धनकारकाणि न भविष्यन्ति । कर्मयोगिनः लोकसङ्ग्रहार्थं सर्वाणि कर्माणि कुर्वन्ति [] । लोकसङ्ग्रहाय कर्मणि कृते सति अर्थात् निःस्वार्थभावेन लोकमर्यादायै कर्म क्रियते चेद्, समताप्राप्तिः सुगमा भवति । समताप्राप्त्युत्तरं कर्मयोगी कर्मबन्धनेभ्यः सुगमतापूर्वकं मुक्तः भवति ।

द्वितीयाध्याये येषां विषयाणाम् उपस्थापनम् अभवत्, तेषु किञ्चित् क्रमभङ्गः दृश्यते इति केचन वदन्ति । ते उदाहरणं यच्छति यद्, 'एषा तेऽभिहता साङ्ख्ये' इत्याख्यः एषः श्लोकः एकत्रिंशो अभविष्यच्चेद् क्रमभङ्गः नाभविष्यत् । एकादशात् श्लोकाद् त्रिंशश्लोकपर्यन्तं साङ्ख्ययोगानुगुणं निष्ठा (समता) उक्ता । ततः कर्मयोगानुगुणं निष्ठायाः वर्णनम् उचितं भवेत् । एवम् एकत्रिंशाद् अष्टत्रिंशपर्यन्तं ये श्लोकाः सन्ति, ते विषयेन सह असङ्गताः इति प्रतीयते । परन्तु तथा नास्ति । किञ्च कर्मयोगानुगुणं समतायाः ज्ञानं प्राप्तव्यं चेत्, कर्तव्याकर्तव्ययोः ज्ञानम् आवश्यकम् । अर्जुनाय युद्धं कर्तव्यम् आसीत्, युद्धत्यागः अकर्तव्यश्च । अतः भगवान् कर्तव्याकर्तव्ययोः वर्णनं कुर्वन् एकत्रिंशाद् अष्टत्रिंशपर्यन्तान् श्लोकान् कर्मयोगसन्दर्भे समतावर्णनात् प्राग् अवदत् । तात्पर्यम् अस्ति यद्, एकादशात् त्रिंशं श्लोकं यावत् वर्णिते विषये किमपि परिवर्तनं न शक्यते । सदसतोः ज्ञानेन समतां प्रतिपादयता तयोः तत्त्वयोः वास्तविकं स्वरूपं वर्णितम् । ततः एकत्रिंशाद् अष्टत्रिंशं यावत् ये श्लोकाः सन्ति, तेषु कर्तव्याकर्तव्ययोः चर्चां कृत्वा एतस्माच्छ्लोकात् कर्म कुर्वन् सिद्धौ, असिद्धौ, फलप्राप्तौ, फलाप्राप्तौ च समतायाः वर्णनम् आरभते ।

शाङ्करभाष्यम् []

सम्पादयतु

शोकमोहापनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष्य इत्याद्यैः श्लोकैरुक्तः न तु तात्पर्येण। परमार्थदर्शनमिह प्रकृतम्। तच्चोक्तमुपसंह्रियते एषा तेऽभिहिता (गीता 2.39) इति शास्त्रविषयविभागप्रदर्शनाय। इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात् ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत आह -

एषा ते  तुभ्यम्  अभिहिता  उक्ता  सांख्ये  परमार्थवस्तुविवेकविषये  बुद्धिः  ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणम्।  योगे तु  तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च  इमाम्  अनन्तरमेवोच्यमानां बुद्धिं  शृणु । तां च बुद्धिं स्तौति प्ररोचनार्थम् बुद्धया यया  योगविषयया  युक्तः  हे पार्थ  कर्मबन्धं  कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धः तं  प्रहास्यसि  ईश्वरप्रसादनिमित्तज्ञानप्राप्त्यैव इत्यभिप्रायः।।

भाष्यार्थः

सम्पादयतु

'स्वधर्ममपि चावेक्ष्य' – इत्यादिभिः श्लोकैः शोकः, मोहश्च दूरीकर्तुं लौकिकन्यायः उक्तः, परन्तु पारमार्थिकदृष्टा नोक्तः । अत्र परमार्थदर्शनस्य प्रकरणत्वाद् अधुना शास्त्रविषयस्य विभागं प्रदर्शयितुम् 'एषा तेऽभिहिता' इत्यनेन श्लोकेन तस्य परमार्थदर्शनस्य उपसंहारं करोति । यतो हि अत्र शास्त्रस्य विषयस्य विभागे प्रदर्शिते सति अग्रे 'ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्' इत्यादिना या द्विधा निष्ठोपस्थापकं शास्त्रम् अस्ति, तद् सुखपूर्वकम् अवगम्यं भविष्यति । श्रोतारः अपि विशेषविभागपूर्वकम् अनायासेन तां ग्रहीतुं शक्ष्यन्ति । अतः वदति –

अहं साङ्ख्ययोगसन्दर्भे अर्थात् परमार्थवस्तूनाम् अभिज्ञाविषये बुद्धिम् अर्थात् ज्ञानम् उक्तवान् । तज्ज्ञानं ये संसारहेतवः अर्थात् शोक-मोहादयः दोषाः सन्ति, तेषां निवृत्तेः साक्षात्कारणम् अस्ति । तस्य ज्ञानस्य प्राप्तेः उपायत्वेन कर्मयोगसन्दर्भे अर्थात् आसक्तिरहिते सति सुखदुःखादीनां द्वन्द्वानां त्यागपूर्वकम् ईश्वराधनाय कृतस्य कर्मणः कर्मयोगसन्दर्भे, समाधियोगसन्दर्भे च तां बुद्धिं (ज्ञानं) वदामि इति । तां बुद्धिं शृणु – रुच्युत्पादनाय तस्याः बुद्धेः स्तुतिः क्रियते – हे अर्जुन ! ईश्वरकृपया प्राप्तेन ज्ञानेन योगविषयकबुद्ध्या युक्तः त्वं धर्माधर्मनामकं कर्मरूपं बन्धनं नंक्ष्यसि इत्यभिप्रायः ।

रामानुजभाष्यम् []

सम्पादयतु

एवम् आत्मयाथात्म्यज्ञानम् उपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुम् आरभते -

संख्या बुद्धिः बुद्ध्यावधारणीयम् आत्मतत्त्वं सांख्यम्। ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिः अभिधेया न त्वेवाहम् (गीता 2।12) इत्यारभ्यतस्मात् सर्वाणि भूतानि (गीता 2।30) इत्यन्तेन सा  एषा अभिहिता।

आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः स इह योगशब्देन उच्यतेदूरेण ह्यवरं कर्म बुद्धियोगात् (गीता 2।49) इति हि वक्ष्यते। तत्र  योगे  या  बुद्धिः  वक्तव्या ताम् इमाम् अभिधीयमानां  श्रृणु यया  बुद्ध्या  युक्तः   कर्मबन्धं प्रहास्यसि।  कर्मणा बन्धः संसारबन्ध इत्यर्थः।

भाष्यार्थः

सम्पादयतु

बुद्धेः अपरं नाम सङ्ख्या अस्ति, अतः बुद्धेः धारकस्य आत्मतत्त्वस्य नाम साङ्ख्यम् इति । ज्ञातव्यस्य आत्मतत्त्वस्य विषये ज्ञातुं या बुद्धिः आवश्यकी, तस्याः विषये न त्वेवाहम् इत्यस्माद् आरभ्य 'तस्मात् सर्वाणि भूतानि' इत्येतं श्लोकपर्यन्तम् उक्तम् अस्ति । इतः आत्मज्ञानसहिताय मोक्षसाधनभूताय कर्मानुष्ठानाय यः बुद्धियोगः उच्यमानः अस्ति, सः अत्र योगः इत्यनेन शब्देन उच्यते । यतो हि अग्रे गत्वा वक्ष्यते यद्, 'दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय ' तस्मिन् योगविषये या बुद्धिः वक्तव्या अस्ति, यया बुद्ध्या युक्तः सन् त्वं कर्मबन्धनस्य नाशं कर्तुं शक्ष्यसि, तां बुद्धिं त्वं शृणु । कर्मभिः जातानां बन्धनानां नाम एव 'कर्मबन्ध' इति । अतः कर्मबन्धनस्य अर्थः संसारबन्धनम् अस्ति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
सुखदुःखे समे कृत्वा...
एषा तेऽभिहिता साङ्ख्ये... अग्रिमः
नेहाभिक्रमनाशोऽस्ति...
 
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु
  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ११-३०
  3. गीता, अ. १, श्लो. ३६, ४५
  4. लोकसङ्ग्रमेवापि सम्पश्यन्कृतमर्हसि, गीता, अ. ३, श्लो. २०
  5. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  6. रामानुजभाष्यम्

अधिकवाचनाय

सम्पादयतु