विद्युदणुः
विद्युदणुः (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । परमाणुः इत्यस्मिन् प्राधान्येन प्रोटान् , न्यूट्रान् विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां द्रव्यराशिः प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श १८३८तमे वर्षे संशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। १८७४ तमे वर्षे ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेषाध्ययनम् अकरोत् । क्रि.श १८९४तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम निर्दिष्टम् । जे. जे. थाम्सन् इति विज्ञानी प्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।
शताधिकाः उपघटकाः सन्ति एकस्मिन् परमाणौ । एवं विद्युदणुघटकाः तु लेप्टान् घटकानां समुदाये अन्तर्भवन्ति । पत्येकं विद्युदणुः ऋणात्मकशक्तिं धरन् विद्युदयस्कान्तीयेषु (electromagnetic) पुनः च न्यूनशक्तिसमन्वयेषु (weak interaction) भागं गृण्हन्ति ।
रासायनिकप्रक्रियाः
सम्पादयतुसर्वस्य अपि परमाणोः अन्तिमस्तरे विद्यमानाः विद्युदणोः अंशाः एव सर्वविधरासायनिकप्रक्रियायां भागं गृह्णन्ति । यस्मिन् परमाणौ अन्तिमस्तरे अधिक-विद्युदणु-अंशाः भवन्ति सः परमाणुः स्थिरः भवति अपि च यस्य न्यूनाः अंशाः भवन्ति सः अधिकक्रियाशीलः भवति इति विज्ञेयम् । परमाणोः विद्युदणु-अंशानां गणनानुगुण्येन एव periodic table निर्मितं वर्तते ।
मापनम् (Measurement):
सम्पादयतुविद्युदणु-शक्तिं (charge) साक्षात् मापयितुं वर्तते एलेक्ट्रोमीटर् इति यन्त्रम् । परन्तु विद्युदणु-प्रवाहं (current) परिमापयितुं विद्यते गाल्वोनोमीटर् । पूर्वकाले तु एतेषां कणानां मापनं नाम बहु कष्टकरं कार्यमासीत् । इदानीं तु सामान्यप्रयोगशालायामपि मापनं कर्तुं शक्यते ।
विद्युदणु-दर्शनम्
सम्पादयतुप्रयोगशालायाः परिमितौ 'कणदर्शिका' (particle detector) इत्यनेन यन्त्रेण पत्येकस्य अपि विद्युदणोः अंशं ज्ञातुं शक्नुमः । तद्द्वारा तस्य शक्तिः, spin, charge इत्यादिकं गोचरं भवति । विद्युदणु-अंशस्य कान्तीयचलनस्य प्रथमचलच्चित्रं तु स्वीकृतं स्वीडन्-देशस्य लण्ड् विश्वविद्यालयेन फेब्रवरिमासस्य २००८ तमे वर्षे ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु- "The Discovery of the Electron". American Institute of Physics, Center for History of Physics. Archived from the original on 2008-03-16. आह्रियत 2015-05-02.
- "Particle Data Group". University of California.
- Bock, R.K.; Vasilescu, A. (1998). The Particle Detector BriefBook (14th ed.). Springer. ISBN 3-540-64120-3.
- Copeland, Ed. "Spherical Electron". Sixty Symbols. Brady Haran for the University of Nottingham.