एतान्यपि तु कर्माणि...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
- कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ ६ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षष्टः(६) श्लोकः ।
पदच्छेदः
सम्पादयतुएतानि अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानि इति मे पार्थ निश्चितं मतम् उत्तमम् ॥
अन्वयः
सम्पादयतुपार्थ ! एतानि अपि तु कर्माणि सङ्गं फलानि च त्यक्त्वा कर्तव्यानि इति निश्चितं मे उत्तमं मतम् ।
शब्दार्थः
सम्पादयतु- सङ्गम् = आसक्तिम्
- फलानि = प्रयोजनानि
- कर्तव्यानि = आचरणीयानि
- निश्चितम् = निर्णीतम्
- मतम् = अभीष्टम् ।
अर्थः
सम्पादयतुअर्जुन ! एतानि कर्माणि अहमेव करोमि’ इति बुद्धिं विना, फलापेक्षां च विना कर्तव्यानि इति यत् निर्णीयते तदेव मम परमं मतम् इति जानीहि ।