उत्क्रामन्तं स्थितं वापि...
भगवद्गीतायाः श्लोकः १५.१०
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
- विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य दशमः(१०) श्लोकः ।
पदच्छेदः
सम्पादयतुउत्क्रामन्तं स्थितं वा अपि भुञ्जानं वा गुणान्वितम् विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥
अन्वयः
सम्पादयतुविमूढाः उत्क्रामन्तं स्थितं वा अपि भुञ्जानं गुणान्वितं वा न अनुपश्यन्ति, ज्ञानचक्षुषः पश्यन्ति ।
शब्दार्थः
सम्पादयतु- विमूढाः = अविवेकिनः
- उत्क्रामन्तम् = ऊर्ध्वं गच्छन्तम्
- स्थितम् = तिष्ठन्तम्
- भुञ्जानम् = अनुभवन्तम्
- गुणान्वितम् = गुणसहितम्
- ज्ञानचक्षुषः = ज्ञाननेत्राः ।
अर्थः
सम्पादयतुपूर्वं शरीरं विहाय शरीरान्तरं गच्छन्तम्, तच्छरीरे तिन्तम्, इन्द्रियैः विषयान् अनुभवन्तं वा एनं जीवं मूढाः न कदापि ज्ञातुं शक्नुवन्ति । ज्ञाननेत्राः पुनः अवश्यं तं ज्ञातुं शक्नुवन्ति ।