ईरोडमण्डलम्
ईरोडमण्डलम् (Erode district) (तमिऴ् – ஈரோடு மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य पश्चिममण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानम् ईरोडुनगरम् । १९९६ पर्यन्तम् इदं मण्डलं पेरियारमण्डलम् इति ज्ञातम् आसीत् । सेप्टम्बर् १७, १९७९ पर्यन्तम् ईरोडुमण्डलं कोयम्बत्तूरुमण्डलस्य भागः आसीत् । सुप्रसिद्धगणितज्ञस्य श्रीनिवासरामानुजस्य, समाजसुधारकस्य पेरियारस्य च जन्मस्थलम् ईरोडु ।
ईरोडमण्डलम् पेरियारमण्डलम् | |||||||
— मण्डलम् — | |||||||
निर्देशाङ्काः
११°०′४५″ उत्तरदिक् ७६°५८′१७″ पूर्वदिक् / 11.01250°उत्तरदिक् 76.97139°पूर्वदिक् | |||||||
देशः | भारतम् | ||||||
भूप्रदेशः | पश्चिम तमिळ्नाडु (Kongu Nadu) | ||||||
राज्यम् | तमिळ्नाडुराज्यम् | ||||||
विभागः | कोयम्बत्तूरु | ||||||
मण्डलम् | ईरोडमण्डलम् | ||||||
उपमण्डलम् | ईरोड्, गोबिचेट्टिपाल्यम् | ||||||
केन्द्रप्रदेशः | ईरोड | ||||||
बृहत्तमं नगरम् | ईरोडनगरम् | ||||||
बृहत्तमं महानगरम् | ईरोडनगरम् | ||||||
समीपतमं नगरम् | कोयम्बत्तूरु | ||||||
Collector | श्री सि। कामराज् IAS | ||||||
सांसदक्षेत्रम् | 3 | ||||||
विधानसभा | 8 | ||||||
जनसङ्ख्या • सान्द्रता |
२२,५९,६०८[१] (2011[update]) • 397 /किमी2 (1,028 /वर्ग मील) | ||||||
लिङ्गानुपातः | पु-51%/स्त्री-49% ♂/♀ | ||||||
साक्षरता • Male |
72.96%% • 80.81% | ||||||
व्यावहारिकभाषा(ः) | तमिळ् | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
विस्तीर्णम् | 5,692 वर्ग किलोमीटर (2,198 वर्ग मील) | ||||||
वायुमण्डलम् • तलस्पर्षी |
• 700 मिमी (28 इंच) | ||||||
Central location: | ११°१५′ उत्तरदिक् ७७°१९′ पूर्वदिक् / 11.250°उत्तरदिक् 77.317°पूर्वदिक् | ||||||
सङ्केताः
| |||||||
जालस्थानम् | Official website of District Collectorate, Erode |
भौगोलिकम्
सम्पादयतुईरोडुमण्डलस्य उत्तरभागे कर्णाटकराज्यस्य चामराजनगरमण्डलम् अस्ति । पूर्वदिशि कावेरीनदी प्रवहति । कावेर्याः अपरस्मिन् तीरे सेलं मण्डलं, नामक्कल् मण्डलं, करूरुमण्डलं च अस्ति । दक्षिणसीमायां तिरुप्पूरुमण्डलम् अस्ति । कोयम्बत्तूरुमण्डलम् तथा नीलगिरिमण्डलं च पश्चिमदिग्भागे स्तः ।
कावेरीनद्याः तिस्रः उपनद्यः भवानी, नोय्यल्, अमरावती च मण्डलस्य उत्तरभागे पर्वतेषु प्रवहन्ति । पालार् नदी अत्र प्रवहन्ती अपरा प्रमुखा नदी । पालार् नदी ईरोडुमण्डलस्य कर्णाटकराज्यस्य च सीमारूपेण प्रवहति । भवानीसागरजलबन्धः, कोडिवेरिजलबन्धः च मण्डले कृषिकार्यार्थं जलव्यवस्थां कल्पयतः । पश्चिमघट्टेषु अन्तर्भूताः अनेके पर्वताः अस्मिन् मण्डले सन्ति । तेषु प्रमुखाः चेन्निमलै, पच्चैमलै, पवऴमलै, पेरुमाळ्मलै, तलवुमलै, लक्कपुरपर्वतः च ।
जनसंख्या
सम्पादयतु२०११ जनगणनानुगुणं ईरोडुमण्डलस्य जनसंख्या २,२५९,६०८ । जनसंख्यादृष्ट्या भारतस्य ६४० मण्डलेषु ईरोडुमण्डलस्य २०० तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरस्ररकिलोमीटर् ३९७ अस्ति (१०३० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १२.०५% आसीत् । अत्रत्यः पुं, स्त्री अनुपातः १०००-९९२, साक्षरताप्रमाणं च ७२.९६% ।
उपमण्डलानि
सम्पादयतु- भवानी
- ईरोडु
- गोबिचेट्टिपाळैयम्
- पेरुन्दुरै
- सत्यमङ्गलम्
कृषिः वाणिज्यं च
सम्पादयतुकृषिः ईरोडुमण्डलस्य जनानां प्रमुखा जीविका । तण्डुलः, कलायः, कदली, कार्पासः, हरिद्रा, नारिकेलः, इक्षुखण्डः इत्येतानि मुख्यानि कृष्युत्पन्नानि । ईरोडुनगरं, हरिद्रानगरम् इत्येव विख्यातम् अस्ति । अत्र अत्यधिकप्रमाणस्य हरिद्रा रुह्यते । पाके उपस्करत्वेन, वस्त्रेषु वर्णकारकत्वेन च हरिद्रा उपयुज्यते ।
गोबिचेट्टिपाळैयं श्वेतकौशेय-कदली-नारिकेलोत्पादने प्रसिद्धम् । भारतदेशस्य प्रथमं स्वयञ्चालितं कौशेयतन्तूत्पादनकेन्द्रं गोबिचेट्टिपाळैये अस्ति । ईरोडुनगरं भारतस्य वैद्युतसीवनकेन्द्रम् इत्यपि ख्यातम् । अत्र वैद्युतसीवनेन निर्मितानां कार्पासशाटिका, शयनवस्त्र, वस्त्रकट, प्रोञ्छ, कटिवस्त्रादीनां विपणयः सन्ति ।
वीक्षणीयस्थलानि
सम्पादयतुभवानीसागरजलबन्धः
सम्पादयतुअयं जलबन्धः भवानीनद्यां निर्मितः । एषः गोबिचेट्टिपाळैयपत्तनात् ३५ किलोमीटर् दूरे अस्ति । अस्य जलबन्धस्य निर्माणकार्यं १९५३ तमे वर्षे समाप्तम् । अत्र बृहद् उद्यानम् अपि अस्ति ।
कोडिवेरिजलबन्धः
सम्पादयतुगोबिचेट्टिपाळैयात् १५ किलोमीटर् दूरे आनैकट्टुग्रामे अयं जलबन्धः अस्ति । एषः सप्तदशशतके मैसूरुमहाराजेन निर्मितः । भवानीनद्यां निर्मितः अयं जलबन्धः ।
सत्यमङ्गलवन्यप्राणिधाम
सम्पादयतुअन्दियूरुसंरक्षितारण्यप्रदेशः, सत्यमङ्गलवन्यप्राणिधाम च गोबिचेट्टिपाळैयतः २५ किलोमीटर् दूरे अस्ति । अत्र बहुविधाः प्राणिनः सस्यानि च जीवन्ति । पश्चिमघट्टप्रदेशस्य अस्मिन् अरण्ये अपरिमितं जीविवैविध्यं दृश्यते । अस्मिन् अरण्ये प्रायः २५०० गजाः वसन्ति । देशस्य बृहत्तमेषु गजनिवासप्रदेशेषु अयम् अपि अन्यतमः । इदम् अरण्यं व्याघ्रसुरक्षाकाननं भवेत् इत्यपि प्रयत्नः चलति । भारतीयचित्रव्याघ्रः, कृष्णसारङ्गः, मयूरः, कण्टकमृगः इत्यादयः अपि अत्र दृश्यन्ते ।
सङ्गमेश्वरदेवालयः
सम्पादयतुअयं देवालयः ईरोडुसन्धेः १५ किलोमीटर् दूरे भवानीक्षेत्रे अस्ति । अस्मिन् क्षेत्रे कावेरी, भवानी, अमृतवाहिनी नदीनां सङ्गमः अस्ति । अतः अयं दक्षिणदेशस्य त्रिवेणीसङ्गमः इति प्रसिद्धः । ये एतं देवालयं प्रति आगच्छन्ति तान् कोऽपि दुष्टशक्तिः न बाधते इति जनाः विश्वसन्ति । एतं देवालयं परितः शङ्खगिरिः, तिरुच्चेङ्गोडे, पद्मगिरिः, मङ्गलगिरिः, वेदगिरिः इति पञ्च गिरयः सन्ति ।
वेलायुधस्वामिदेवालयः
सम्पादयतुईरोडुपत्तनात् २५ किलोमीटर् दक्षिणे शिवगिरिपत्तने अयं देवालयः अस्ति । अस्मिन् देवालये दक्षिणभारते तृतीयबृहत्तमः रथः अस्ति । चित्रापूर्णिमायाम् अत्र रथोत्सवः वैभवेन आचर्यते । अत्रत्या देवी पोन्कालियम्मन् । एषा कोङ्गु वेल्ललार् समुदायस्य कुलदेवता । पङ्गुनीमासे (मीनमासे) अस्याः देव्याः रथोत्सवः भवति ।
कोडुमुडिदेवालयः
सम्पादयतुतमिऴ्नाडुराज्यस्य कोङ्गुप्रदेशस्य सप्तसु तेवारस्थलेषु इदं षष्ठं स्थलम् । अत्र सुन्दरः नमच्चिवायप्पदिकं रचितवान् । अत्र ब्रह्मणः विष्णोः च पूजास्थलानि सन्ति । एतौ परमेश्वरस्य पूजां कृतवन्तौ, अतः अस्य देवालयस्य त्रिमूर्तिदेवालयः (मुम्मूर्तिगळ् तलम्) इत्यपि नाम ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये ईरोडमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
- Erode District Archived २०११-०९-०२ at the Wayback Machine
- Erode District Details Archived २०१३-१०-०८ at the Wayback Machine
- The changing industrial landscape of Erode
- ↑ "2011 Census of India" (Excel). Indian government. 16 April 2011.
- ↑ www.tn.gov.in