इछामति नदी
इछामतिनदी
इच्छामतिनदी वा इच्छामति वा इछामति-कालिन्दिनदी वङ्गदेश-भारतयोः एका आन्तःसीमान्तनदी। एषा भारतवङ्गदेशयोः मध्ये प्रवाहिता। अस्याः नद्याः दैर्घ्यं ३३४ किलोमिटर् अपि च प्रस्थं समूरूपेण ३७० मिटर् भवति। वङ्गदेशनीरोन्नयनसंस्थया वा पाउवो इत्यनेन वा इच्छामतिनद्याः प्रदत्तपरिचयः एवं एषा दक्षिण-पश्चिमांशयोः नदी च तस्याः संख्या ७।
वर्तमानकाले अवस्थानम्
वनगाँ ग्रामे इच्छामती नदी।
वर्तमानकाले एषा नदी 'सिलटेशन' वा पलिमृत्तिकया नदीवक्षः पूर्णः सञ्जातः इति हेतो वहूविधा समस्या सञ्जाता। अस्य फलस्वरूपेण शीतकाले शीर्णकायमार्गे अपि च ग्रीष्मकाले अधिकः जलोच्छासः दरीदृश्यते। विशेषज्ञाः अस्याः परिस्थितेः समाधातुं प्रयत्नं कुर्वन्ति अपि च सङ्कटसमाधाने भारतवङ्गदेशयोः उभयोः सर्वकारेण कर्मसूचिः अनुष्ठीयते।
गतिपथः
इछामतीनद्याः इदानीं अंशत्रयं वर्तते - (१) दीर्घांशः पद्मानद्याः शाखानदीमाथाभाङ्गातः प्रवाहितः अपि च २०८ कि.मि प्रवाहितः सन् उत्तर २४ परगणाजिलायाः हासनावादे अपि च सातक्षीराजिलायाः देवहाटासन्निकटे कालिन्दीनद्या सह संयुक्तः भवति। (२) पश्चिमढाका इति स्थानस्य मुख्यनदी। (३) दिनाजपुरस्य इछामति। १७६४-६६ ख्रीष्टाब्दे रेनेलस्य भावचित्रानुसारे शेषोक्ते नद्यौ एकीभूता एव आसीत्। अधिकांशेषु जलानुसंधित्सु मध्ये एवं मतं प्रचलति आदौ तिस्रः नद्याः अभिन्नाः आसन्। उपरि उल्लिखिता द्वितीया नदी हुरसागरस्य अग्रभागे नाथपुरतन्त्रांशस्य विपरीते जाफरगञ्जस्य दक्षिणतः उत्पत्तिमलभत् अपि च इदानीं मन्सीगञ्जस्य मोहिनीघाटं प्रति प्रवाहिता। योगिनीघाटं यमुना-इछामतीनद्योः मिलनस्थले अवस्थितम्। एषा नदी पञ्चतीर्थस्थलेषु प्रवर्तते, यथा तीर्थघाटं, आगला, शोलपुरं , वरुणीघाटमपि च योगिणीघाटं इति नाम्ना परिचितः।
निम्नप्रदेशे इछामती
माथाभाङ्गानदी वङ्गदेशस्य कुष्टियाजिलायाः मुन्सीगञ्जे पद्मनद्याः राइटव्याङ्कस्थानतः अजायत्। एषा नदी नदीयाजिलायाः माजदियास्थाने द्विखण्डिता सन् इच्छामती अपि च चूर्णी इति द्वौ नद्यौ जातौ। भारतवर्षे १९.५ कि.मि वक्रतया अतिक्रम्य इछामती मुवारकपुरमिति स्थाने वङ्गदेशे प्रविष्टा। एषा नदी वङ्गदेशे ३५.५ किमि प्रवाहिता अपि च पुनः भारतवर्षस्य नदीयाजिलायाः दुत्ताफुलियामध्ये प्रविश्य पुनः एषा वङ्गदेशभारतयोः मध्ये २१ कि.मि दीर्घान्तर्जातिकसीमारेखा निर्माय आंराइलतः कालाञ्चिपर्यन्तमपि च पुनः गोयालपाडातः कालिन्दी-राइमङ्गल-आउटफलपर्यन्तं गत्वा वङ्गोपसागरे पतिता।
भैरवः कदाचित् गङ्गातः प्रवाहितः स्यात्। तदानीं वर्तमानकालस्थितजलङ्गीतीरमध्ये प्रवाहितः सन् इतोऽपि पूर्वदिशस्थफरिदपूरमप्रति प्रवाहितः आसीत्। भैरवः इदानीं जीवितः नास्ति। माथाभाङाजलङ्गी इत्यनयोः नवजलस्रोतः । अपि च अतिसाम्प्रतिकाले एषा नदी हुगलीनद्या सह संयोगेन चुर्णीनदी संजाता। पूर्वकाले माथाभाङानद्याः अधिकं जलं कुमाराचित्राकवदुके(भैरवः)छामतिमध्ये प्रवाहितं स्यात्। अत्रोल्लेखयोग्यविषयः भवति यत् एते नद्ययः प्राक् दक्षिणपूर्वमुखे प्रावहिताः आसन् परन्त सम्प्रति कापि शक्तिः जलाङ्गीमाथाभाङां दक्षिण-पश्चिमदिशं नयति। एवम्भूतस्य कार्यस्य कारणं भवति यत् स्थानीयकारणं यत् 1750 ख्रीष्टाब्दस्य प्रागेव संघटितं स्यात् यत् तदारभ्य अकृतकार्यमेव चलति।
नदीगर्भस्य नाव्यताह्रासः
यद्यपि इच्छामतिनदीगर्भः माथाभाङ्गातः १४" अधिकं उपरि भवति, अपि च चूर्णी माथाभाङ्गातः गभीरता ६" न्यूनं भवति। शुष्ककाले माथाभाङ्गायाः जलोच्छासः पद्मानद्यापेक्षया अधिकं भवति अतः अस्मिन् समये इच्छामतीनद्यां जलं न प्रविशति। नदीगर्भे अधिका मृत्तिका सञ्चिता भवति अतः रेलयानकृते नदीगर्भे भित्तिकां निर्माति। तस्मिन् स्थाने नदीगर्भे खननकार्यं आवश्यकमेव यतो हि शुष्ककाले अपि जलप्रवाह अस्येव। वस्ततः अस्मिन् विषये भारतवङ्गदेशयोः उभयोः अस्मिन् विषये सहमतिः आचरणीया। अस्मिन विषये मन्त्रीपर्याये आलोचितमपि च परिमापिते स्थाने क्षतिग्रस्तानां जनानां समस्याविषये धारना आगच्छति। अस्मिन् विषये भविष्यतकाले कश्चित् सिद्धान्तः स्वीक्रियते इति सम्भावना अपि अस्ति।
नदीसंश्लिष्टस्थानं शिल्पावशिष्टेन अपि च जनैः नदीगर्भस्थानस्वीकरणेन क्षतिग्रस्तं भवति। प्रयोजनीयवर्ज्यजलनिष्काषनमार्गाभावः, अवैधरूपे क्षेत्रस्वीकारः , जले आर्सेनिकप्रभावः, अपि च जलजस्थलजोद्भिदानां निधनमित्यद्याः समस्यायाः अंशग्रहनेन समाधानं प्रयोजनम्।
इच्छामतिनदी अपि च तस्याः शाखा उत्तर२४परगनाजिलायाः वनगाँमध्ये अङ्गलमध्ये (इउ) आकृति स्वीकृता। कृषिकार्यमपि च नृतात्त्विकविषयं त्यक्त्वापि वस्तुतगुल्मानां प्रादुर्भावः दुश्चिन्तायाः कारणं यतो हि गुल्माः जलस्योपरि आवृताः भवन्ति।
दूर्गाप्रतिमाया विसर्जनम्
दूर्गापूजायाः अन्ते, दशम्याम् प्रतिमाविसर्जनं भारत-वङ्गदेशसीमान्ते अनन्यप्रदर्शनीयं चित्रं भवति। इछामतिनदी या उभयो देशयोः मध्ये निरपेक्षसीमारूपेण कार्यं करोति, प्रतिमानिरञ्जनसमये उभयोः देशयोः नौकातः जनाः उच्छसिताः प्रफुल्लताः सन्ति। अस्मिन् समये यावत् पर्यन्तं दृष्टिः प्रसारिता भवति तावत् पर्यन्तं नौका एव दृश्यते। प्रत्येकं नौकायां स्वदेशस्य केतनं लग्नं भवति। सम्पूर्णस्य वत्सरस्य अस्मिन्नेव दिवसे उभयोः देशयोः जनाः अन्यदेशं प्रति गन्तुं शक्नुवन्ति यतो हि तद्दने नियमविषये काचित् शिथिलता दृश्यते। कियत्कालपूर्वं जनाः प्रतिमानिरञ्जनस्य परमपि अन्यस्मिन् देशे गन्तं शक्नुवन्ति। परन्तु सम्प्रतिकाले सीमान्तरक्षाविषयनियमपरिपालने वद्धपरिकराः रक्षकाः अस्मिन् अनुशीलने व्याघातकाः भवन्ति।