आख्याहि मे को भवान्...
(आख्याहि मे को - 11.31 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
- विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।
पदच्छेदः
सम्पादयतुआख्याहि मे कः भवान् उग्ररूपः नमः अस्तु ते देववर प्रसीद विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
अन्वयः
सम्पादयतुदेववर ! उग्ररूपः भवान् कः मे आख्याहि । ते नमः अस्तु । प्रसीद । आद्यं भवन्तं विज्ञातुम् इच्छामि । तव प्रवृत्तिं न हि प्रजानामि ।
शब्दार्थः
सम्पादयतु- देववर = देवश्रे !
- उग्ररूपः = भयरस्वरूपः
- भवान् कः = त्वं कः
- मे आख्याहि = मह्यं कथय
- ते नमः = तव प्रणामः
- अस्तु = भवतु
- प्रसीद = प्रसन्नो भव
- आद्यम् = प्रथमम्
- भवन्तम् = त्वाम्
- विज्ञातुम् = वेदितुम्
- इच्छामि = अभिलषामि
- तव = ते
- प्रवृत्तिम् = चेष्टाम्
- न हि प्रजानामि = न वेद्मि ।
अर्थः
सम्पादयतुदेवश्रेष्ठ ! भयरस्वरूपः त्वं कः इति मह्यं कथय । तव प्रणामः अस्तु । अनुगृहाण । प्रथमं त्वां वेदितुम् इच्छामि । तव प्रवृत्तिं न जानामि ।