अथवा बहुनैतेन...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
- विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्विचत्वारिंशत्तमः(४२) श्लोकः ।
पदच्छेदः
सम्पादयतुअथवा बहुना एतेन किं ज्ञातेन तव अर्जुन विष्टभ्य अहम् इदं कृत्स्नम् एकांशेन स्थितः जगत् ॥ ४२ ॥
अन्वयः
सम्पादयतुअर्जुन ! अथवा एतेन बहुना ज्ञातेन तव किम् ? अहम् इदं कृत्स्नं जगत् एकांशेन विष्टभ्य स्थितः ।
शब्दार्थः
सम्पादयतु- अथवा = यद्वा
- एतेन = अनेन
- ज्ञातेन = विदितेन
- बहुना = अत्यधिकेन
- तव किम् = ते किं प्रयोजनम्
- अहम् इदम् = अहम् एतत्
- कृत्स्नम् = निखिलम्
- जगत् = लोकम्
- एकांशेन = एकदेशेन
- विष्टभ्य = व्याप्य
- स्थितः = स्थितः ।
अर्थः
सम्पादयतुअर्जुन ! अथवा मम विभूतीनां सर्वमपि विस्तरं विदित्वा तव किम् अधिकं प्रयोजनम् ? अतः संक्षेपतः इदं जानीहि यत् अहम् निखिलमपि एतत् जगत् एकावयवेन व्याप्य स्थितः अस्मि ।